पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
83
व्यवहारकाण्डः

प्रव्रजितधनदानाशक्ताविज्ञाताः संशयस्थाः अभिशस्ताः । अत्यन्तवासिनः-- नैष्ठिकब्रह्मचारिणः । प्रव्रजितास्सन्यासिनः ॥ प्रतिभूदानासमर्थं प्रत्याह कात्यायनः--

"अथ चेत्प्रतिभूर्नास्ति सार्थयोर्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद्दूताय वेतनम् ॥

इति । दूतस्साध्यपालः । वेतनं-- भृतिः । सार्थद्वयं-- कोटिद्वयम् । एवं गृहीत्वा वादी न्याय्ये प्रवर्त्यः ।

अभियोक्त्रादीनां स्वस्वार्थनिवेदनक्रमः.

अभियोक्त्रादीनामुक्तिप्रकारं कात्यायन आह--

"अभियोक्ता वदेत्पूर्वमभियुक्तस्त्वनन्तरम् ।
तयोरुक्ते सदस्यास्तु प्राड्विवाकस्ततः परम्" ॥

इति । पूर्वं वदेदिति-- प्रतिज्ञां कुर्यादित्यर्थः । पूर्ववादोऽभियोक्तुरिति नियमस्य क्वचित् व्यभिचारमाह--

"यस्य वाऽप्यधिका पीडा अकार्यं वाऽधिकं भवेत् ।
तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत्" ॥

पूर्वनिवेदनमप्रयोजकमित्यर्थः । अर्थिवादः-- पूर्वपक्षः । यत्रोभयोरपि परस्परमर्थित्वं साध्यभेदाद्युगपद्भवति तत्र बार्हस्पत्यमुपतिष्ठते ।

"अहंपूर्विकया[१] तावदर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडामवेक्ष्य वा" ॥

ग्राह्यपीडाऽवेऽक्षणं समानवर्णयोरिति ध्येयम् ॥



  1. यातावार्थि