पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
71
व्यवहारकाण्डः

"यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः" ।

इति स्मरणात् । अतश्चा परीक्ष्य व्यवहारो न कर्तव्यः अपितु परीक्ष्यैव कर्तव्य इत्याह पितामहः--

"असत्याः सत्यसङ्काशाः सत्याश्चासत्यसन्निभाः ।
दृश्यन्ते भ्रान्तिजनकाः तस्माद्युक्तं परीक्षणम् ॥
सूक्ष्मो हि भगवान् धर्मो दुष्प्रेक्ष्यो दुर्विचारणः ।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥

प्रत्यक्षमार्गः-- स्पष्टमार्गः । व्पवहारदर्शनोपायो मनुना दर्शितः--

"यथा नयत्यसृक्पातैः मृगस्य मृगयुः पदम् ।
नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥
बाह्यैर्विभावयेल्लिङ्गैः भावमन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश्चक्षुषा भाषितेन च ।
भूतच्छलानुरोधित्वात् द्विगतिसमुदाहृता ॥"

व्यवहारस्य क्वचिद्भूतानुसारित्वमाश्रित्य निर्णयः, क्वचिच्छलानुसारित्वमाश्रित्यापि । यदा तु सर्वदा भूतानुसरणं न शक्यते कर्तुं तदा छलानुसारेणापि साक्ष्यादिप्रमाणाधीनो निर्णयः कार्य एव । विप्रतिपत्तौ "साक्षिनिमित्ता (सत्यव्यवस्था) व्यवस्थितिः" इति गौतमोक्तत्वात्--

"भूतच्छलानुसारित्वात् द्विगतिस्समुदाहृतः ।
व्यवहारः" ॥

इति स्मृतेः छलानुसरणेऽपि राजा नाधर्मेण सज्यते ।

"यद्यदाचरति श्रेष्ठो धर्म्यं वाऽधर्म्यमेव वा ।
कुलादिदेशाचरणाच्चरित्रं तत्प्रकीर्तितम् ॥