पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
69
व्यवहारकाण्डः

इति । लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम्--

शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ।
अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षमाणास्ते भूपाः नरकं यान्त्यधोमुखाः ।
न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं त्वप्रियं तत्र न सभ्यः किल्बिषी ततः" ॥ इति ।
स्नेहाच्चाज्ञानतो वाऽपि मोहाद्वा लोभतोऽपि वा ।
यत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ।

स्नेहो-- रागः, मोहो-- विपरीतज्ञानं । अत्र रागाल्लोभाद्भयाद्वा अन्यथावादी विवादपराजयनिबन्धनदमद्विगुणदमं दण्ड्यं इत्याह योगयाज्ञवल्क्यः--

"रागाल्लोभाद्भयाद्वाऽपि स्मृत्यपेता(दि)र्थकारिणः ।
सभ्याः पृथक् पृथक् दण्ड्याः विवादद्विगुणं दमम्" ॥

विवादे यो दमो भवति पराजये तद्द्विगुणं दाप्य इति बहुव्याख्यातृसंमतोऽर्थो ग्राह्यः । न पुनर्विवादास्पदीभूतद्रव्यद्विगुण इति कस्यचिद्व्याख्यातुरर्थः । प्राड्विवाकस्सभ्या वा व्यवहारनिर्णयात् पूर्वं अर्थिना सह विजने संभाषणमात्रादपि दण्ड्या इत्याह कात्यायनः--

"अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना ।
प्राडिवाकोऽथदण्ड्यस्स्यात् सभ्याश्चैव न संशयः" ॥

इति । निर्णयादूर्ध्वमपि सभ्यदोषपरिज्ञाने तु दण्डमाह स एव ।

"सभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तदा ।
कार्यं तु कारिणामेव निश्चितं न विचालयेत्" ॥