इति लीलया ब्रुवाणा समुद्गयुगलस्य विनिमयं कृत्वा ।
लक्षं क्षणाद्गृहीत्वा जगाम निजवेश्म कङ्काली ॥ ८ ॥
अथ निवर्तितकृत्यां ज्ञात्वा तामागतां वणिग्भवनात् ।
शङ्खसुतं हर्म्यगता प्रोवाच कलावती विजने ॥ ९० ॥
त्वयि मे हृदयमकस्मादन्तः सक्तं बलात्न निर्याति ।
त्वं तु धनवान्विवाहं करिष्यसीत्येव मे शङ्का ।। ९१ ।।..
दिनरमणीयः पुंसां जन्मजघन्यस्तु गेहिनीसङ्गः,
तदपि विवाहे मोहादविचारतरादराः पशवः । ९९ -
नित्यप्रसूतिहतसुस्थिरयौवनेषु
वेशोपचाररहितेषु मदोज्झितेषु ।
गोष्ठीविलासरसकेलिनिरादरेषु
दारेषु का स्मररुचिः कलहाङ्कुरेषु ।। ९३ ॥
जात्यैव कामिजनरञ्जनजीवितासु
देशोपचारनिरतासु ससौरभासु ।
कामप्रमोदममकासु सविभ्रमासु
वेश्यासु कस्य न रतिः सततस्मितासु ॥ १४ ॥
कुरु मे प्रत्ययहेतोर्धनधारणपत्रिका विवाहे. (त्वम्) ।
विहिता सैव तवास्ते मत्तगनस्याङ्कशशिखेव ॥ ९६
इत्युक्तः स रमण्या स्थूलतरोज्जासपत्रिकामलिखत्
नाम्ना. विक्रमशक्तेर्नृपमाहिषीभ्रातृपुत्रस्य ॥ ९ ॥
अथ शय्याभवनगतं प्रातः स्वयमेत्य कङ्काली ।
जामातरमिदमवदन्मिथ्यैव सखेदवदनेवः ॥ २७
आसन्नयौवनस्त्वं दुहितु, यौवनं त्वया प्रायः ।
क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥ १८ ॥
स्थिरयौवनाः प्रकृत्या पुरुषाः किल तालसालसकाशाः
ह्यः कन्यकाद्य तरुणी प्रातर्वृद्धा भवत्येव ।। ९९ ॥
पृष्ठम्:समयमातृका.pdf/५६
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
काव्यमाला।