सामग्री पर जाएँ

पृष्ठम्:समयमातृका.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८ समयः]
५३
समयमातृका ।

अन्येद्युर्दिवसव्ययमानेतुं कुटिलचेतसस्तस्मात् ।
चित्तग्रहणाय निजां विससर्ज कलावती दासीम् ।। ७६ ॥
सुचिरात्समेत्य दासी शरावचञ्चत्सहिङ्गुकणभूर्जा ।
हस्तेन विस्फुटन्ती कलावतीं सस्मितामवदत् ।। ७७ ॥
श्वशुरेण ते महार्धः प्रहितोऽयं भूरिभोज्यसंभारः ।
उत्तिष्ट्र कुरु विभागं निमन्त्र्यतां बन्धुवर्ग:श्च ॥ ७८ ।।
तैलस्य तोलकमिदं तोलकयुगलं च चूर्णलवणस्य ।
दत्त्वा मामिदमूचे भृकुटीकुटिलाननः स परम् ॥ ७९ ॥
तैलमिदं लवणमिदं शाकाय श्वेतिकाद्वयं दत्तम् ।
वेश्यायाः किं कामी ददाति दिवसव्यये लक्षम् ॥ ८ ॥
इत्युक्त्वा तत्सहितं दासी संदर्श्य थूत्कृतं बहुशः।
क्षिप्त्वा दूरे तन्मुखदर्शनमलिना निनिन्द दृशम् ॥ ८१॥
अन्येद्युः कङ्काली विचिन्त्य तद्वञ्चने सुखोपायम् ।
प्रययौ कृत्वा विजने कलावती विदितवृत्तान्ताम् ॥ ८२ ।।
सा वर्णमानमुद्रासदृशसमुद्रद्वयं विधाय नवम् ।
एकस्मिन्नाभरणान्यन्यस्मिन्नुपलखण्डिकां विदधे ।। ८३ ॥
स्थूलतरतूलपटिकाप्रावरणं प्राप्यः भाण्डशालाग्रम् ।।
सा कक्षाञ्चलसंवृतसमुद्गयुगलावद्वणिजम् ॥. ८.४ ।।
वाराणसीप्रयाणे नक्षत्रं क्षिप्रकृन्ममोपनतम् ।
नास्ति पुनर्वसुनातरदर्शनमात्रं त्वयि गतायाम् ।। ८६ ॥
इदमाभरणं सर्वं समुद्गकन्यस्तमस्ति रत्नाङ्कम्
स्त्रीबालधनं भक्ता प्राणसमं सर्वथा रक्ष्यम् ।। ८६ ॥
इत्युक्त्वा तत्सर्वं संदर्श्य पुनः सुमुद्रितं कृत्वा
निक्षिप्य पुरः प्रचुरं मा तमवादीत्सहेलैव ।।
पाथेयमतः पृष्ठाल्लाभे न ममोपयुज्यते लक्षम् ।
त्वं दातुमर्हसि सखे देवालयधान्यभुक्तिसंशोध्यम् ॥ ८ ॥

१० वाटकायामञ्च