सामग्री पर जाएँ

पृष्ठम्:समयमातृका.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
काव्यमाला।

वंशजगौरवयोगात्सुवृत्तताश्लाध्यरूपसंभारः
कण्ठे हार इवासौ कृतस्तया गुणगणोदारः ॥ १३ ॥
कायषणार्जितबहुविधराजमुतामात्यबहुधनेन सह ।
अधुना त्वत्तनयोऽस्याः स्वामी प्राग्जन्मसंबन्धात् ॥ ६४ ॥
उचितसरसङ्गसुभगां (दृष्ट्वैव) कलावर्ती रागयौवनोन्मता।
तब हस्ते निक्षिप्तं स्त्रीधनसहितं मया गेहम् ।। ६५ ।।
यातायां मयि तीर्थ कंचित्कालं त्वया कलावत्याः।
मुद्रामुद्रितमखिलं सर्वस्वं पालनीयं तत् ।। ६६ ॥
अद्य तु भवता कार्यः पुत्रस्नेहात्स्नुषानुरोधाच्च ।
अस्मद्गेहे स्वल्पो भोज्योत्सवमङ्गलाचारः ॥ ६.७ ॥
उक्त्वेति साश्रुनयना कङ्काली तस्य वज्रहृदयस्य
निपपात चरणयुगले सुतलाभविशेषतुष्टस्य ॥ ६८ ॥
स च तामुवाच भद्रे सर्वमिदं हर्षकारि कुशलतरम् ।
किं तु त्वद्गमनं मे नाभिमतं सह गमिष्याव: ।। ६९ ॥
परभोजननियमवता भोक्तव्यं त्वद्गृहे कथं नु मया ।
संभोजनमूल्यं में गृह्णासि तदा गमिष्यामि ॥ ७० ॥
इत्युक्त्वास्या हस्ते दत्वा हृष्टः स रूपकं सार्धम् ।
तामन्तः स्मितवदनां विसृज्य पश्चाद्ययौ भोक्तुम् ।। ७१ ।।
तत्र सुतं सविलासं दृष्ट्वा कान्तासनाथसंभोगम् ।
निर्व्यंयमोज्यसमृद्ध्या निश्चिन्तः प्रीतिमानभवत् ।। ७२ ॥
कर्पूरैलापरिमलरसवासितविविधभोजनं भुक्त्वा ।
पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् ।। ७३
सततं दिनव्ययं वः सर्वमहं समुचितं प्रदास्यामि ।
एवंविधस्तु नः पुनः कार्यः स्थूलव्ययारम्भः ७१॥
इत्युक्त्वा स गृहं निजमगमद्गगनस्थलीकृषिताशः ।
लाभप्रदर्शनं किल लब्धधियां वञ्चनोपायः ॥ ७९ ॥