अथ कङ्काली गूढं निःशल्यां कासमोगसामग्रीम् ।
आस्वाद्य निशामनयन्निःशब्दमहोत्सवोत्साहा ।। ६० ॥
प्रातर्विचिन्त्य युक्ति सा गत्वा हट्टभाण्डशालाग्रम् ।
कामिजनकस्य वणिजः स्फीतार्थसमृद्धिमद्राक्षीत् ॥ ११ ॥
सोऽपि महाधनसंचयलाभविशेषऽपि सद्वाहः ।
पुत्रह्रतहेमचिन्तासंतापात्कातरतरोऽभूत् ।। ५२ ॥
उन्नतवृसीनिविष्टः कोटित्रयलेख्यसंपुटीहस्तः ।
अर्थिजनवदनदर्शनमीलितनयनप्रसक्तसततान्ध्यः ॥ १३ ॥
बन्धादिमोक्षणागतलाभपरित्यागयाचने बधिरः ।
अत्यल्पपण्यदानप्रश्नप्रतिवचनजल्पने मूकः ॥ १४ ।।
तैलमलकललमूषक जग्धार्धटुप्पिकाविकटः ।
शीर्णोर्णाप्रावरणप्रलम्बधनकद्धुकाञ्चलालोलः ॥ १५ ॥
नग्नोरुजानुजर्जरधूमारुणष्टथुलंशिथिलमोचोटः ।
रूलश्मश्रुकलापस्थूलप्रचलल्लटुम्पकग्रन्थिः ।
निजगृहदिवस परिव्यययाचनागतकन्यकाप्रहारोग्रः ।
रज्जुग्रथितबुभुक्षितमार्जारीरावनिर्दयप्रकृतिः ॥ ६७ ॥
दूराद्वितर्क्ययमाणः स तया नासार्पिताङ्गुलीलतया ।
ख्यातः स एव वणिगयामिति विधे निश्चितं तस्य ॥ १८ ॥
साथ शनैरुपसृत्य प्रविरलजननिर्मलावसरे
तमभाषत भाण्डपते वक्तव्यं किंचिदस्ति मम विजने ॥ १९ ॥
पुत्रस्ते मुग्धमतिर्मृगशिशुरिव लुब्धकैर्विटैः कृष्टः ।
हारितभूषणवसनः संध्यायां ह्यो मया दृष्टः ।। ६० ।।
दयया प्रवेशितोऽसौ मया स्वगेहं मनोहराकारः ।
अविशत्क्षणं न जाने केन प्रथा मत्सुताहृदयम् ॥ ६ ॥
स तया नानानन्तररूचिराम्बरभूषणार्पणप्रणयैः
राजार्हविविधभोगैः काम इवाभ्यर्चितो भक्त्या ।। ६२ ।।
पृष्ठम्:समयमातृका.pdf/५३
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
८ समयः]
समयमातृका