सामग्री पर जाएँ

पृष्ठम्:समयमातृका.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
काव्यमाला।

पश्यत पश्यत लोकाः कलिकालः कीदृशः प्रवृत्तोऽयम् ।
स्निग्धाः सुहृदः सधनाः स्त्रीवधपापं भजन्ते यत् ।। ३७ ॥
को वेत्ति गुणविभागं हस्तेन परीक्ष्यते कथं जातिः ।
दुर्ज्ञेयं कुटिलानां चेष्टितमन्यवचश्वान्यत् ॥ ३८ ॥
इत्युक्त्वा गृहपरिजनकलकलहोदग्रदुःसह विकारा
कङ्काली राजपथे चुक्रोश गतागतस्तारम् ।। ३९ ।।
तद्भीत्यैव विटास्ते सपदि विवर्णा निरुत्तरप्रतिभाः
निर्गत्योत्पथविवरैर्दूरतरे संगमं चक्रः ॥ ४० ॥
अथ ते विचार्य सुचिरं भोगभ्रष्टाः समापतितकष्टाः ।
मिथ्यापवादनष्टा विफलक्लिष्टाः मिथो जग्मुः ॥ ४१ ॥
जातासपटलदोषैरिव नास्माभिर्व्रजन्वाणिग्दष्टः ।
कङ्काल्यैव हृतोऽसावित्यवदन्निर्गुटस्तत्र ॥ ४२ ॥
राशिं निगृह्य वणिजं पश्यत भूर्जेन निग्रहोऽस्माकम्
कुट्टन्यैव कृतोऽयं शोचन्नब्रवीद्दिविरः ॥ ४३ ॥
विहिताङ्गहारयुक्तिः कुट्टन्या पूर्वरङ्गयोग्योऽयम् ।
अस्मन्वृत्तं वृत्तं किमन्यदिति नान्यवित्प्राह ॥ ४४ ॥
कपटतुलां कङ्कालीमङ्कशताङ्कामहं वेद्मि
विहितस्तया भ्रमोऽसावित्याह तुलाधरः कोपात् ॥ ४५ ॥
आकृष्य मेषभोगाद्दूरतरं मित्रमण्डलं वणिजः ।
कालकलयेव नीतं कङ्काल्या गणक इत्यूचे ।। ४६ ॥
पेया मद्यसंमृद्धिस्तयैव सा कृतचिकित्सायाम् ।
लङ्घनमिदमुपदिष्ट तापादित्यब्रवीद्वैद्यः ॥ ७ ॥
नवसुखचरित नष्टं कष्टं विभ्रष्टनियमवृत्तानाम् ।
अस्माकमेतदनुपममित्याह कविः श्वसन्विरसः ॥ ४८ ॥
इति दुःखकोपविस्मयलज्जाकुलिताः कथा मिथः कृत्वा ।
कुसुमारामसंभ्रष्टा इव मधुपास्ते विटाः प्रययुः ॥ ४९ ॥