विघ्नस्तु संगमे ऽस्मिन्नेकः परिचिन्तितोऽस्ति में भयदः
यदयं विटसंघातः कण्टकजालायते परितः ॥ १४ ॥
भुक्त्वा पीत्वा भवतः परधनवर्णाः स्ववित्तपरिहीणाः ।
धूर्तास्त्वामेव पितुर्बन्धनयोग्यं प्रयच्छन्ति ॥ २६ ॥
तस्माद्यदि दिनमेकं तिष्टसि सुतरामदृश्यरूपस्त्वम् ।।
तदयं कुटिलविटानां नैराश्याद्भिद्यते यूथः ॥ २६ ॥
इत्युक्ते कुट्टन्या शैशवसरलाशयो वणिक्सूनुः ।
तामवदत्सत्यमिदं स्नेहान्मातस्त्वया कथितम् ॥ २७ ॥
अस्ति ग्रन्थिनिबद्धं मम किंचिज्जनकभाण्डशालात्तम् ।
तदिदं गृहाण दुहितुर्मण्डनभोगव्यये योग्यम् ।। २८ ।।
इत्युक्त्वा सारतरं दत्त्वा तस्यै शिशुर्गुरुदविणम् ।
तत्संदर्शितमविशच्छन्नपथं ष्टयुलहर्म्यतलकोष्ठम् ॥ २९ ॥
तं प्रच्छाध सहर्षा कृत्वा मिथ्या मुखं नवविषादम् ।
अभ्येत्य विटानवदत्कङ्काली कलकलारम्भे ॥ ३० ॥
आजन्मसहजसुहृदामस्मत्प्रणयोपचारतुष्टानाम् ।
उचितः किमयमकस्माद्भवतां निन्द्यः समाचारः ॥ ३१ ॥
दस्युसुतस्तीक्ष्णतरः स भवद्भिः किं वणिक्सुतव्याजात् ।
रत्नाभरणाकीर्णे प्रवेशितोऽस्मद्गृहं रात्रौ ॥ ३२ ॥
अन्यगणिकाप्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् ।
तत्किं स्त्रीवधसदृशं क्रियते ष्टथुसाहसं पापम् ।। ३३ ॥
स परं प्रभातनिद्रालवविवशायां क्षणं कलावत्याम् ।
आदाय हारसहितं केयूरयुगं गतः कामी ॥ ३४ ॥
श्रूयन्ते प्रतिनगरं भूषणलुब्धैः पणाङ्गना निहताः ।
निजदेवताप्रसादात्कलावती किंतु मुक्ताद्य ।। ३५ ॥
तेन यदेतन्नीतं राजकुले कस्य मूर्ध्नि परिपतति
प्रतिभूर्मेवाद्विधाना क्व गृहीतः पण्यललनाभिः ॥ ३६
पृष्ठम्:समयमातृका.pdf/५१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
८ समयः]
समयमातृका।