पृष्ठम्:समयमातृका.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
काव्यमाला ।

रतिशर्मा द्विजन्मायं गणिकाग्रहशान्तिकृत् ।
आरामिकः करालोऽयं कीलवर्तश्च नाविकः ॥ ३९ ।।
उद्यानपालः कन्दोऽयं मुकुलाख्यश्च पौष्पिकः ।
चर्मकर्मदत्तोऽयं मारच्छिद्रश्च धावकः ॥ ४० ।।
बहिरास्ते व चाण्डाली क्रोशन्ती घर्वराभिधा।
डोम्बश्चण्डरवाख्यश्च कोष्ठागारजहारिकः ॥ ४१ ॥
ताम्बूलं देयमेतेभ्यः प्रहेयं प्रातरेव तु ।
सख्यै शम्बरमालायै गुरवे दम्भभूतये ॥ ४२ ॥
उक्त्वेति पूगफललुण्ठिनिविष्टचित्ता.
वैतालिका विविधवेशवनीप्रविष्टाः
चक्रुः प्रभूतमधुपानविवर्णमाना-
स्ताम्बूलदानबहुमानगतागतानि ।। ४३ ॥
ततः क्षीवैरसंभाव्यं कत्थमानैर्विटैः परम्
उद्वेजितेव रजनी धूपव्याजेन निर्ययौ ।। ४४ ॥
नृपस्य बाहुर्बुधि दक्षिणोऽहं ममैव राज्यं कलमान्तरस्थम्
मयि स्थिते तिष्ठति नाट्यशास्त्रं सूते तुला वित्तपतिश्रियं मे ॥ ४५ ॥
त्रैलोक्यवृत्तं गणितेन वेद्मि मयैव भोजस्य कृता चिकित्सा
भुक्ता मया भूपतयः स्वसूक्तैरित्यूचिरे गद्यमदोद्धतास्ते ॥ ४६ ॥
विसृष्टास्ते कलावत्या ताम्बूलार्पणलीलया ।
निर्ययुः कलयन्तोऽन्तर्भाविनी भोज्यसंपदम् ॥ ४७ ॥
अथ वितत्तवितानं हंसशुम्रोपधानं
शयनममललीनप्रच्छदाच्छादिताग्रम् ।
अभजत हरिणाक्षी क्षीबमादाय बालं
निजपरिजननर्मस्मेरवक्राम्बुजश्रीः ॥ १८ ॥


गेहशान्तिकुत इतिः पाठः