पृष्ठम्:समयमातृका.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समयः]
४५
समयमातृका।


धन्योऽयं बालकः श्रीमान्भवद्भिर्यस्य संगतिः ।
युष्मत्परिचयः पुण्यपरिपाकेन लभ्यते ॥ २६ ॥
शिशुरप्ययमस्माकं कामुकोऽभिमतः परम् ।
बाल एवं सहस्रांशुः कमलिन्या विकासकृत् ।। २७ ।।
इत्यादिमिः स्तुतिपदैः कुट्टन्या विटमण्डले ।
स्वीकृते भूरभूत्क्षिप्रं ताम्बूलावेलपाटला ॥ २८ ॥
ततः काली कलावत्या धात्री वेतालिकाभिधा।
ताम्बूलदानावसरप्रहर्षाकुलितावदत् ॥ २९ ॥
अत्यल्पः परिवारोऽयं ताम्बूलप्रणयी स्थितः ।
नास्माकमन्यवेश्यानामिवासंख्यः परिग्रहः ॥ ३० ॥
कङ्कः प्रथमपूज्योऽयं देवाकृतिरुदारधीः ।
यस्यानुरोधात्सुलभा दुर्लभापि कलावती ॥ ३१ ॥
जामाता गौरवार्होऽयं पूज्यः कन्यार्पणेन नः ।
शाङ्खिकः कमलो नाम संमानं पूर्वमर्हति ॥ ३१ ॥
अयं पितुः कलावत्याः प्रेतकार्यप्रतिग्रही।
ह्यः पर्वदिवसावाप्त "शक्तिर्महाव्रती ॥ ३३ ॥
अयं स्थलपतेः सूनुः कपिलः कलशाभिधः ।
गुरुभ्राता कलावत्याः कल्पपालो मधुप्रदः ।
मृदङ्गोदरनामायं कलावत्याः स्वसुः पतिः ।
मातुल: कलहो नाम बिन्दुसारः सहोदरः ॥ ३५ ॥
इयं दत्तकपुत्रस्य कलावत्याः कलायुषः ।
धात्री कलावती नाम रुग्णचन्द्रश्च तत्पतिः ।। ३६ ॥
अयं भरतभाषाज्ञः काम्नो भागवतात्मनः ।
जायनः खरदासोऽयं महामात्यस्य वल्लमः ॥ ३७
निगिलः सूपकाराख्यः कुम्भकारश्च कर्परः
बकश्छत्रधरश्चायं खञ्जनो युग्यवाहनः ॥ ३८ ॥