पृष्ठम्:समयमातृका.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
काव्यमाला।

अत्रान्तरे वणिक्सूनुर्विवेश गणिकागृहम् ।
आसन्नलाभाभिमुखैरावृतं क्षेत्रवासिभिः ॥ १३ ॥
कर्णसंसक्तमुक्ताङ्ककनकस्थूलबालकः ।
बहुहेमभराक्रान्तिसव्यथ श्रवणद्वयः ॥ १४ ॥
कण्ठाभरणमध्यस्थहैमरक्षाचतुष्टयः ।
जननीहस्तविन्यस्त सर्षपाङ्कितचूलिकः ॥ १६ ॥
राजावर्तमणिस्थूलगुलिकाभ्यां विराजितम् ।
राजतं चरणालीनं बिभ्राणः कटकद्वयम् ॥ १६ ॥.
मुहुर्दीर्धाञ्चलदशां स्त्रस्तां संकलयन्पटीम् ।
बहुचूर्णकताम्बूलदग्धास्यकृतसीकृतः ॥ १७ ॥
सः प्रविश्य प्रकाशाशां ददर्शादर्शमादरात् ।
कलावतीं कलाकान्तललितामिव शर्वरीम् ॥ १८ ॥
कथं लालनयोग्योऽयं बालः संभोगभाग्भवेत् ।
इतीय तारहारेण सस्मितस्तनमण्डलात् ।। १९ ॥
द्रविणक्षयदीक्षायां वैचक्षण्यकृतक्षणाः ।
ऋत्विजः सप्त विविशुः पुरस्तस्य महाविटाः ॥ २० ॥
निर्गुटः क्षीणसाराख्यो दिविरः कलंमाकरः ।
रेचक्री भरताचार्यः क्षुण्णपाणिस्तुलाधरः ।। २३ ।।
गणकः सिंहगुप्तश्च तिक्तनामा भिषक्सुतः ।
कटिः कुटिलकश्चेति भोगाम्भोरुहषट्पदाः ॥ २२ ॥
वेश्यासमागमेः शैलीं शिक्षितः स विटैर्बहि ।
प्रविश्य कामिनीपार्श्वे प्रौढवत्समुपाविशत् ।। २३ ।।
वाससाच्छाद्य नासार्धमप्रस्तावकटूत्कटात् ।
नर्मगोष्टीं स विदधे शिक्षितां, शुकपाठवत् २४ ।
ततः प्रविश्यः कङ्काली गृहोतोच्चतरासना
रञ्जनाय पुरश्चक्रे विटानां कपटस्तुतिम् ॥ २५