मेषाणां चण्डमुण्डाहरणकटकटारावपिष्टास्थिसंस्था
सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्डघण्टा ॥ ३० ॥
एष स्फीतधनस्य लोभवसतेः पापस्य मूर्तिस्पृशः
शङ्खाख्यस्य महावाणिजः पङ्काभिधानः सुतः
आकृष्टः प्रतिवेश्मनिर्गतविटैः सारङ्गमुग्धः शिशुः
सुभ्रू त्वां तुषराशिलोलचटकाकारः समुद्वीक्षते ॥ ३१ ॥
एष निधिर्विधिना तव नूनं मेषमतिर्विहितः प्रहितो वा ।
स्थूलमुखः ष्टथुचूलकलापः स्कन्धयुगाञ्चितकर्णसुवर्णः ॥ ३२ ॥
इत्यादि कङ्केन वितर्क्यमाणं वणिक्सुतं दृक्पतितं विचार्य।
मनोरथाभ्यर्थितलाभतुष्टा कङ्कालिका सस्मितमित्युवाच ॥ ३३ ॥
निर्यताम्बूललालालवशबलवलद्धीवक्रावलोकी
रक्तोपानद्युगोद्यत्सरसरमुखरप्रस्खलत्पादचारैः ।
एवंरूपोऽतिमुन्धः शिशुरखिलधनावाप्तये बन्धकीना-
मक्लेशाराधनार्हः स्वयमुपनमति प्रायशः पण्यपुण्यैः ॥ ३४ ॥
कलावति त्वन्मुखनिश्चलोऽयं महाविटश्चारणचक्रचारैः ।
निवेदितोऽग्रे तव देवतायाः शिशुः पशुर्भोगविभूतिकामैः ॥ ३५ ॥
पार्श्वे त्वमेषां व्रजः कङ्क तूर्णं दूतं करिष्यन्ति भवन्तमेते ।
तयेति दत्तोचित शासनोऽसौ जगाम सौधादवरुह्य हृष्टः ॥ ३६ ॥
इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां षष्ट: समयः।
सप्तमः समयः।
अथाययौ शनैः श्रीभान्नवोद्भूतमनोभवः
लतालिङ्गनकृद्धालः कालः कुसुमलाञ्छनः ॥ १ ॥
संभोगसुखसंपन्तिः पराधीनेव कामिनाम् ।
आललम्बे वनेशाशामितीचाकलयन्रविः ॥ २ ॥
१. 'चर्ममुण्डा' इति पाठः । २. निर्गुट इति पाठः ।च पद इति पाठः २. निर्गुट' इति पार,