सामग्री पर जाएँ

पृष्ठम्:समयमातृका.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समयः ]
४१
समयमातृका ।

प्राप्तस्य शंभोर्वणिजस्तु वारे सुप्तस्य शून्ये शयने निशायाम् ।
नन्दा समेत्यापरकामिगेहात्सविप्रलम्भं शपथं करोति ॥ २० ॥
पितुर्गृहाद्भूरिविभूषणानि प्राप्तं गृहीत्वा मदनं मृणाली ।
निगृह्य संदर्शयति स्वगेहं शून्यं तमन्विष्टमुपागतानाम् ।। २१ ॥
भोज्यं जिना पाटलिका प्रविष्टं मुष्टिप्रदं श्रोत्रियमत्रिरात्रम् ।
शुष्कान्नदाता पितृकार्यमेतत्किं किं करोषीत्वसकृद्रवीति ॥ २२ ॥
मार्जारजिह्वा जननी हरिण्याः पद्यस्थ भोज्यं निशि लुण्ठितं यत् ।
तस्मिन्गते तद्विजने विशङ्काः पश्य प्रभाते कवलीकरोति ॥ २३ ॥
ईर्ष्याविशेषात्कृतकोपवादसंमूर्छितायां मलयं रमण्याम् ।
विभूषणं तोषणमाशु किंचिदस्यै प्रयच्छेति वदन्ति सख्यः ॥ २४ ॥
रामेण कृष्णीकृतकेश एष बलीविशेषस्कुटवृद्धभावः ।।
योगागृहं शम्बरसारनामा यागाय युग्येन गुरुः प्रयाति ॥ २६
अयं जनस्थानविनाशहेतुः केतुः खरक्रूरतया प्रसिद्धः ।
आस्थानभट्टश्चिटिवत्सनामा प्रयाति युग्येन विशीर्णवस्त्रः ॥ २६ ॥
उच्चैश्चिरात्सोधनिषक्तदृष्टिरश्वाधिरूढः कमलोऽधिकारी।
कलावति त्वामयमीक्षमाणः शूलार्पिताकारतुलां विभर्तिः ॥ २७ ॥
श्रीखण्डोज्ज्वलमल्लिकातिलकवानक्षामहेमाङ्गद-
छिन्नश्लिष्टविनष्टनासिकतया प्रख्यातजारज्वरः
एष त्वामवलोक्य मालवपतेर्दूतः प्रपश्चाभिधः
पश्योद्वेष्टनिवेष्टनानि कुरुते भोगीव भस्त्राहतः ॥ २८ ॥
एष प्रख्यातकूटः कपटविटघटानर्मकर्मप्रगल्मः
श्रीगुप्तो नाम धूर्तः सकलकलिकलाकल्पनामूलदेवः ।
दृष्ट्वा दुरात्प्रसिद्धां तव नवजननीमञ्जलिश्लिष्टहस्तः
पश्याक्ष्णा दत्तसंज्ञः स्मितचलचिवुकः स्तोतुमेतां प्रवृतः ॥ २९ ॥
पातालोत्तालतालुभविततवदनस्पष्टदृष्टोग्रदंष्ट्रा
विश्वग्रासावहेलाकुलितशिखिशिखाविभ्रमोहान्तजिह्वा।