पृष्ठम्:समयमातृका.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
काव्यमाला

सा हर्म्यशिखरारूढा कदाचिद्रणिकागुरुम्
कामिनां नर्मसुहृदं ददर्श पाथ नापितम् ॥ ८ ॥
श्मश्नुराशीचितमुख काचकाचरलोचनम् ।
पीवरं तीरमण्डूकैमार्जारमिव शारदम् ॥ ९ ॥
विटाना केलिपटह तप्तताम्रघटोपमम्
दधान रोममालान्तं स्थूलखल्वाटकर्षरम् ।। १० ।।
ताम्बूलष्टीवनत्रासादुपरि क्षिप्तचक्षुषम् ।
आनिनाय तमाहूय सा नेत्राचलसंज्ञया ॥ ११ ॥
स समभ्येत्य तां दृष्ट्वा चिन्तानिश्चललोचनाम्
पत्रच्छ विस्मितः कृत्वा नर्मप्रणयसंतृतिम् ॥ १२ ॥
घ्यानालम्बनमातनं करतले व्यालम्बमानालक
लुप्तव्यञ्जनमञ्जनं नयनयोनिःश्वासतान्तोऽधरः
मौनक्कीमनिलीनकेलिविहणं निदायमाणं गृहे (!)
वेषः नोषितयोषितां समुचितः कस्मादकस्मात्तव ॥ १६ ॥
कि मेखला मदनबन्दिवर्धनितम्बे
सुश्रोणि नैव वत गायति मङ्गलानि ।
अङ्गं कशाङ्गि किमनायशःप्रमेण
कर्पूरचन्दनरसेन न लिप्तमेतत् ॥ १४ ॥
प्राप्त पुरा अचरलाभमसंस्ष्टशन्ती
माविप्रभूतविभवाय कृताभियोमा
किं केनचित्सुचिरसेवननिष्फलेन
मिथ्योपचारवचनेन न वञ्चितासि ॥ १९ ॥
लोभागृहीतमविभाव्य भयं भवत्या
वर्षात्प्रदर्शितमशलिया सखीभिः
वज्रं तबाप्रतिगमाभरणं नपाई
दौरेण किं झुलप्ति नगराधिपाये ॥ १६ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:समयमातृका.pdf/४&oldid=341541" इत्यस्माद् प्रतिप्राप्तम्