पृष्ठम्:समयमातृका.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
काव्यमाला ।

मन्दपुण्यस्य जननी वात्सल्यजननी मम ।
सुचिरस्थायिना भद्रे शूलन निधनं गता ॥ ६३ ॥
विदितोऽयं मकारश्चेदभविष्यदसंशयः
तज्जनन्या वियोगों से माभविष्यद्विचेतसः ॥ ६४॥
इत्युक्त्वा चश्चितोऽस्मीति स रुदित्वा विनिर्ययों
पुरुषाकारसंदिग्धनिर्विषाणदृषोपमः ॥ ६९ ॥
नित्यं भोजनमैथुनप्रणयिनस्त्यक्तान्यकार्याः पर
लोकेऽस्मिन्गुलगर्तमात्रसुखिनः सन्त्येव शून्याशयाः ।
ये सेषप्रतिमाः क्षयोद्यतमतेः सर्वस्वहर्तुः क्षणा-
दाप्तस्यैव विनिक्षिपन्ति नितरां निःशमङ्गे शिरः ॥ ६६
इत्यबुद्धिधनाधाननिधानविविधोदयैः ।
कूटपण्यैरसामान्यैस्तारुण्यमतिवाह्यते ॥ ६७ ॥
असत्यनैव जीवन्ति वेश्याः सत्यविवर्जिताः ।
एताः सत्येन नश्यन्ति मद्येनेव कुलाङ्गनाः ॥ ६८ ॥
सत्य विनाशाय पराङ्गनानामसत्यसारा गणिका गणश्रीः
सत्येन वेश्या किल दृष्टसारा दरिद्रशाला इव कस्य सेव्याः ॥६९
दानेन नश्यति वणिश्यति सत्येन सर्वथा वेश्या ।
नश्यति विनयेन गुरुर्नश्यति कृपया च कायस्थः ॥ ७० ॥
"वेश्याननस्य कितवस्येव वञ्चनमायया ।
अहो वैव्यमित्युक्त्वा परोऽपि परितुष्यति ॥ ७१ ॥
पुराह पृथिवीमेतां भ्रान्त्वा जलधिमेखलाम्
प्राप्ता वेश्यास्पद लोमात्पुरं पाटलिपुत्रकम् ॥ ७२ ॥
कुटम्यस्तत्र सर्वज्ञा दृष्ट्वा मामल्पकौशलाम् ।
जहरुः सवनं येन होताह
ततस्तेनावमानम गणेशायतनाग्रतः ।।
क्ष्माभित्राविशम् ॥ ७३ ॥
स्थिता कृतोपासाहमहका रविवर्जिता ।। ७४ li