पृष्ठम्:समयमातृका.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
समयः]
२५
समयमातृका

सोऽथ ग्घः प्रकृत्यैव सत्यप्रत्ययमोहितः ।
चक्रे शूलोपशान्त्यै में चक्रे सर्वाङ्गमर्दनम् ॥ १० ॥
सादर मृद्यमानेषु तेनाङ्गेषु शनैः शनैः ।
प्रययो सोपरोचेव क्षणदा क्षणवन्सम ॥ ११ ॥
ततः प्रसाते तद्भोगवञ्चने चिन्तितं मया
पशुबुद्धिर्वराकोऽयं मया शूलेन वाहितः ॥ १२ ॥
अनेन मेषमुग्धेन दत्ता साठी चतुर्गुणा ।
भोगावहारल्यायेन ध्रुवं तामनुयायते ॥ १३ ॥
तस्मादेषे रतिस्पृष्टी कार्यस्तावद्यथा तथा ।
न्यायाय सुरतोच्छिष्टः कथं समुपसर्पति ॥ ५४॥
इति ध्यात्वाहमारब्धरतिमोगा क्षणाक्षये।
प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥ १५ ॥
आरूढरतियन्त्रों में शूलक्केशकृपाकुलः
अले मत्सगमेनेति सानुरोघोऽवदत्स माम् ॥ १६ ॥
आवर्जनाय तस्याथ निर्याजाजवचेतसः ।
मया मिथ्या प्रियालापविहितो रञ्जनक्रमः ॥ ५७
अहो पतामृतस्पशस्तवाङ्गेषु विमाव्यते ।
अधुनैव मया दृष्टं यस्य प्रत्यक्षलक्षणम् ॥ ५८ ॥
महान त्वया र समास्मिन्रमणस्थले ।
न जाने के मतं शूलं मत्पुण्यैस्त्वमिहागतः ॥ ५९ ॥
इति श्रुत्वैव मद्राक्यं सहसा साश्रुलोचनः ।
रत्यर्धविरतः शोकात्सोऽन्तः सानुशयः परम् ॥ ६० ॥
निजे वृक्षो ललाट त्रताडयित्वा स पाणिना ।
‘हा कष्टं हा हतोऽस्मीति वदन्मामिदमब्रवीत् ॥ ६१ ॥
पूर्व नेतन्मया ज्ञातं पन्मदङ्गसमागमः ।
गये हसते नारीणां मणिमन्त्रीधादिवत् ।। ६२ ।।


ऐति पोट “ईषतिस्पटीकार्यः इति पाठः।