पृष्ठम्:समयमातृका.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
काव्यमाला ।

अज्ञातकालोचितकर्मयोगा रोगा इवाहहर्निशपच्यमानाः ।
जगञ्त्रये देवमनुष्यनागाः प्रज्ञादरिद्राः खलु सर्व एव ॥ २१ ॥
ज्येष्ठेन तावत्परमेष्ठिनैव विचारशून्येन कृतं किमेतत् ।
यत्कामिनीपीनपयोधराणां विद्युद्विलोला किल यौवनश्रीः ॥२२||
का नाम बुद्धिहीनस्य दिवारस्ति विदग्धता ।
कुष्माण्डानां न यश्चक्रे तैलमूर्णा च दन्तिनाम् ॥ २३ ॥
रत्नार्थिना जलनिधौ मधुसूदन
क्लेशः किलाद्भिवलनप्रभवोऽनुभूतः
किं सैव पूर्वमखिलार्थविलुण्ठनायः
कान्ताकृतिः कपटकाममयी न सृष्टा ॥ २४ ॥
निद्रा महीमारंपरिग्रहश्च श्रीसंश्रयत्वं परयाचनं च ।
अत्युन्नतत्वं गुणहीनतां च किं युक्तमेतत्पुरुषोत्तमस्य ॥ २५ ॥
कृशः शशी गणा नग्ना भार्या वस्त्रार्धहारिणी ।
शंभोर्धनपतिप्रीतिर्न विद्मः कोपयुज्यते ॥ २६ ॥
भस्माङ्गः प्रकटं बिभर्ति ललना योऽङ्गे स किं युक्तकृ
न्निःसङ्गः सततं गणेषु रमते या किं स सत्यव्रतः ।
यः सक्तः परमेश्वरोऽपि वृषभृद्वर्गे स किं नीतिमा
न्गोप्यां या कुटिलां कलां स्फुटतया धत्ते स. किं धीधनः ॥ २७
कि कामिनीप्रणयिना दिननायकेन
संशातितं भ्रमकृता कृतिना स्वतेज:
अर्येन किं न विहिताभिमुखा मृगाक्षी
वित्तेन तीक्ष्णतरमप्यबला सहेत ॥ २८॥
चन्द्रस्येश्वरसेवया कृशतनोः क्षैण्यं न निर्मूलित
मानो मूर्ध्नि जडः स्थितः कथमिव प्राप्नोति संपूर्णताम्।
वृद्ध्यर्थी यदि कि करोति चरणोपान्ते न तस्यास्पदं
हन्त्येव स्वसमीहितं गुणमदादुच्चैः स्थितिः सेवकः ॥ २९