वेश्योपदेशविषये चतुराननत्वा-
न्मायाप्रपञ्चनिचयेन जनार्दनत्वात्
रिक्तप्रसक्तकलहरतिभैरवत्त्वा-
त्सर्गस्थितिक्षयविधातृगुणा त्वमेव ॥ ११ ॥
उद्भिन्नयौवनमनोहररूपशोभा-
संभाविताभिनवभोगमनोभवानाम् ।
एणीदृशां त्वदुपदेशविवर्जितानां
मातर्भवन्ति नहि नाम समीहितार्थाः ॥ १२ ॥
तस्माद्भजस्व परिकल्पितपुत्रिकां मां
भक्तामनन्यशरणां शरणां प्रपन्नाम् ।
आत्मार्पणप्रणयिनां नवदर्शनेऽपि
जात्यैव पेशलधियः सदया भवन्ति ॥ १३ ॥
इत्यार्थिता कलावत्याः प्रत्यासन्नसुखस्थितिः
मनुष्यामिषकङ्काली कङ्काली तामभाषत् ॥ १४ ॥
संक्रान्तहृदयस्नेहा निःशूलप्रसवोद्भवा ।
गर्भमारं विना पुत्रि त्वं सुतामिमता मम ।। १५ ।।
कङ्केन जन्मसुहृदा त्वदर्थमहमर्थिता ।
स्यूतेयं मे विटच्छिन्ना नासा येन पुनः पुनः ॥ १६ ॥
पात्रं मदुपदेशस्थ त्वमेव त्रिदशोचिता ।
सद्रित्तिलिखितं चित्र चित्रतामेति नेत्रयोः ॥ १७ ॥
श्रूयतां प्रथम पुत्रि भूत्यै यत्कथयाम्यहम् ।
कलाकोषं तु कालेन नित्याभ्यासादवाप्स्यसि ॥ १८ ॥
न कुलेन न शीलेन न रूपेणा न विद्यया ।
जीविताभ्यधिकं बुद्धिलभ्यं धनमवाप्यते ।। १९ ।।
प्रायेण जगति प्रज्ञा नाना स्ति कस्यचिद
इयती जगतीं वेद्मि पूर्णामूर्णामायुभिर्जडैः ॥ २० ॥
मातरः इति पार सवा इतिः पाठ जा इंति पाठ