पृष्ठम्:समयमातृका.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ समयः]
१३
समयमातृका ।

ततः प्रत्यन्तविषये प्रभूतःच्छागगोचरा
ख्याता धनवती नाम स्फीतां चक्रे गृहस्थितिम् ॥ ७४ ॥
साथ मेवापघातेन तस्मिन्पशुधने वने ।
स्वकाय इव सापाये याते चर्मावशेषताम् ॥ ७९ ॥
गृहीत्वा पशुपालस्य स्थूलं निक्षेपकम्बलम् ।
गत्वावन्तिपुरं चक्रे ताराख्यापूपविक्रयम् ।। ७६ ॥
क्रीत्वा गणेशनैवेद्यमण्डकानां करण्डकम् ।
पुनः पाकोष्मणा नित्यमकरोद्विक्रथं पथि ।। ७७ ॥
सामु गृहनारीणां प्रभूतोज्जामतण्डुलम् |
प्रभूतलाभलब्धानां मूत्रस्यापि परिक्षयः॥ ७८ ॥
पान्थकन्या घृताभ्यक्तां कृत्वा कुशलिकाभिया ।
मिथ्यासन्नविवाहार्थमयाचत गृहे गृहे ॥ ७९ ॥
ततः सा पैचिका नाम धूतशालापुरःस्थिता ।
कपटासरालाकाना मकरोडविक्रयम् ॥ ८ ॥
सा पौप्पिकी मुकालका कृत्वा निर्माल्यविक्रयम् ।
देवमासादपालानां मूल्यं भुक्त्वा ययौ निशि ॥ ८१ ॥
ग्रामयात्रासु सा वारिसत्रदात्री हिमाभिधा ।
रङ्गभेक्षणबालानां निनाय वलयादिकम् ॥ ८२ ॥
सा नक्षत्रपरावृत्ति कृत्वा षदाष्टकेष्वपि ।
विवाहेष्वकरोद्यत्नं
वर्णाख्या कूटवर्णनैः ॥ ८३ ॥
गणविज्ञानिका मुग्धप्रत्ययः ख्यातिमाययौ ।
नामाभिज्ञानमात्रज्ञा न तु चौरान्विवेद सा ।। ८४ ।।
मानसिद्ध्यमिघाना सा देवतात्रैशधारिणी ।
उपहारास्प्रयच्छेति बदन्ती नावदत्परम् ।। ८१ ॥


'प्रभूतो ज्ञानमण्डलम्' इति पाठः ३. 'कलशि

"पेचिका इति पाठ ‘वारिसत्वधात्री’ इति पाठ