4 ६८२ सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमने- होतृप्रशास्तृब्राह्मणाच्छंसिपोतृनेटच्छावाकाग्नीध्राणां समाख्यानिमित्तकोऽपि । ब्रह्मो- दातृयजमानसदस्यानां तु समाख्यानिमित्तक एव । निमित्तान्तरस्यामावात् । हारि- योजने वचनानिमित्तामावेऽपि सर्वेषामेव मक्षः । ततोऽध्वर्युस्ततश्चमसीति लाघवा. वाद्वक्तव्ये अधन्यशब्दग्रहणं होमाभिषवनिमित्तकाध्वर्युकर्तृकमक्षणानन्तकाल एवं समाख्यानिमित्तः स्वस्वचमसे भक्षो नतू अध्वर्युणा कृततत्तश्चमसमक्षानन्तरमेव तत्तच. मसिकर्तकस्वस्वचमतसंबन्धिप्समाख्यामक्ष इतिज्ञापनार्थम् ।
होमयोर्वषटकारव्यवाये भक्षव्यवाये वषट्कारयोश्च होमव्यवाये प्रतिशेषं प्रतिग्रहणं च भक्षः। नानागृहीतयोश्च समवाये।
होमयोर्मध्ये वषट्कारव्यवायो नाम होमसमकालं वषट्कारोच्चारणामावः । भक्ष- व्यवायो भक्षकाले मन्त्रोचारणाभावः । वषट्कारयोर्मध्ये होमव्यवायो. नाम वषट्कारों- धारणकाले होमामावः । तत्रोमयत्राप्युभयोः शेषं शेषं प्रतीति प्रतिशेषम् । ग्रहणं ग्रहणं प्रतीति प्रतिग्रहणम् । चकारः प्रतिशेषमित्येतेन समुच्चयार्थः । होमयोर्वष्टका- स्योरित्युभयत्रापि द्विवचनं द्विदेवत्यहोमावतराभिप्रायम् । तेन बहुवेऽपीई भवति । होमशब्देन याग एवोच्यते । वषटकारसांनिध्यात् । व्यवायशब्दग्रहणान्नैमित्तिको वेदं प्रतिशेषप्रतिग्रहणभक्षणम् ।
नानागृहीतयोश्च समवाये ।
अत्र धकारोऽप्यर्थकः । नानागृहीतयोः पृथक्पृथग्गृहीतयोहयोरेककस्मिन्काले गृहीतयोरपि होमयोर्वषट्कारव्यवाये मक्षव्यवाये वषट्कारयोश्च होमव्यवाय प्रतिशेषं प्रतिग्रहणं च मक्ष इत्ययं विधिर्मवतीत्यर्थः । यथा प्रतिनियायद्विवक्त्यमरुत्वतीयादिषु । एतत्प्रदर्शयितुमेव प्रायश्चित्तप्रकरणं परित्यज्यात्र वचनं सांनिध्यादिदेवत्य मात्रविष. यकम् ।
य वैश्यराजन्ययोः सोमभक्षणं विद्यते।
अपान्तरस्यावश्यशब्दस्य पूर्वनिपातः । राजन्यवैश्ययोः सोमपक्षणामा प्रकारान्तरमाह-
यद्यब्राह्मणः सोमं पिपासेन्न्ग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य यदन्याꣳश्चमसानुन्नयत्यथैतं यजमानचमसमत उन्नयति यदन्याꣳश्चमसाञ्जुह्वत्यथैतस्य दर्भतरुणेनोपहत्यान्तःपरिध्याहवनीयादङ्गारं निर्वर्त्याहं त्वदस्मीति जुहोति यदन्याꣳश्चमसान्भक्षयत्यथैतस्य चमसस्य यजमानो भक्षयति ।
यदि पिपासेदित्यनेन मुख्यः पक्षो भक्षणामाव एव राजन्यवैश्ययोः । पानेच्छा ख. रमेकका । २ ख. नियन'। K 1