सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ - ५७४ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्ने- अनवस्रावितान्तरूष्मपक्को वैशद्यानपेक्ष ओदनश्चरुरिति तृतीयाध्याये मीमांसका अपीत्थं चरुस्वरूपमाहुः । घरोरवदानं मेक्षणेन । मेक्षणेन चरूणामिति सूत्रात् । स्विष्टकृयागोत्तरं तस्य मेक्षणस्य प्रहरणम् । प्रायणीयायां विधानवचनेनान्यत्र तसि- द्धेर्दर्शितप्रायत्वात् । बौधायनेन स्पष्टतयोक्तेश्च । अत्र प्रयाजाज्यभागस्विष्टकृदनूया. असूक्तवाकशंयुवाकपत्नीसं यानानां प्राकृतः स्वरः । प्रधानस्वरे विशेषः शाखान्तरे या. वत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्यादिति । अनेन दीक्षणीयायां यावद- लमुच्चैस्त्वं भवति। एवं मन्द्रं प्रायणीयायां मन्द्रतरमातिथ्यायामिति प्रायणीयातिथ्यावि. षयकस्वरविशेषविषयेऽपि द्रष्टव्यम् । तत्राऽऽपस्तम्बेन प्रधानस्वरविषयेऽनेके पक्षा उक्ताः-यत्प्रागग्नीषोमीयात्तेनोपाशु चरन्त्यथैकेषां यावत्यस्य वाग्भवति तावत्या दीक्षणीयायामन्वाह ततो नीचेस्तरां प्रायणीयायां नीचेस्तरामातिथ्यायामुपाश्शूपसत्सूचैन रग्नीषोमीये मन्द्रेण वा दीक्षणीयायां मन्द्रतरेण प्रायणीयायां मन्द्रतरेणाऽऽतिथ्यायामुपां. शूपसत्सूञ्चैरग्नीषोमीय उपांशु वा दीक्षणीयायामुपांशुतरं प्रायणीयायामुपांशुतर. मातिथ्यायामुपांशूपसत्सूञ्चर ग्नीषोमीय इति । चरन्तीतिवचनात्तत्र यावत्प्रधानमुपाश्विति न्यायादिष्टिप्रधानानामेवोपांशुत्वम् । अङ्गानां प्रयाजादीनां तु यथाप्रकृतीति तयाख्या- तारः । जैमिनिस्तु नवमाध्याये प्रथमे पादे देशसंबद्धमुपांशुत्वं तेषां स्याच्छ्रुतिनिर्देशा- त्तस्य च तत्र भावादिति सूत्रेण प्रयाजादीनामङ्गानामेवोपांशुत्वमाह । प्राग्भागरूपदेश- संबद्धमुपांशुत्वं तद्भागवर्तिपदार्थानां धर्मः स्यात् । श्रुतिनिर्देशात्, यत्किंचिच्छब्दरू. पश्रुतिसंयोगात् । अयमर्थः-प्राचीनशब्दः साकाङ्क्षत्वादश्यं निराकाङ्क्षी कर्तव्यः । तत्र यज्ञशब्देन श्रुतेन निराकाझीकरणं न संभवति सराशब्दसंबन्धित्वात्तस्य ततश्चाश्रुतोऽन्यो यज्ञशब्दः कल्पनीयः । तस्माच्छ्रुतेनाग्नीषोमीयशब्देन निराकाङ्क्षी क्रियते । ततश्चाग्नीषोमीयस्यानवयवित्वेन प्राचीनशब्दस्यावयवलक्षणभागपरत्वासंभवा- द्भागवर्तिपदार्थपरत्वावश्यंभावात्तद्धर्म उपांशुत्वं तदपूर्वप्रयुक्तं तस्यापूर्वस्य तन्त्रे तेषु भागसंबन्धिपदार्थेषु भावादिति । अत्र बहुविस्तर आकरे द्रष्टव्यः । अस्मिन्सूत्र उपात्ता श्रुतिस्तु-सरा वा एषा यज्ञस्य तस्माद्यत्किंचित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्तीति । योपांश्वनुष्ठितिः सैषा सरा । त्सरा छद्मगतिः । आश्वलायनस्तूपांशुत्व- विधायक प्रकरणे सौमिकीषु इष्टिषु प्रधानविषये सौमिक्य इतिवचनेनोपांशुत्वमेवो- तवान् । शाङ्खायनोऽपि दोक्षणीयादीष्टिपूपांशुहविरिति प्रत्येकमुपांशुत्वं स्पष्टमेवोक्त. वान् । तत्रोपसंहाराङ्गीकारपक्षे यो हौत्रशास्त्रानुगुणः पक्षः सोऽङ्गीकर्तव्य इति । उपसंहारानङ्गीकारपक्षे तु प्राकृतो मध्यमस्वर एव । उपसदि उपांशुत्वं तूपाश्शूपतदा चरामेति स्वशाखाविहितत्वान्नियतमेवेति द्रष्टव्यमिति । १स्व. यवत्वे ।