१५.० पटलः]. गोपीनाथमट्टकृतज्योत्लान्याख्यासमेतम् । ७७१ कर्तव्यमित्येक आचार्याः समामनन्ति वदन्तीत्यर्थः । अधिषषणचर्मास्तरणमेवाधिषवण- चर्मणः प्रयोजनं प्रोक्षणस्य तदत्वात्तस्यापि ग्रहणम् । ग्राणां त्वाप्सादन- मेव प्रयोजन संमुखीकरणविशिष्टप्रोक्षणस्यापि तत्संस्कारस्वात्तत्संवद्धत्वाच्च तस्याप्यत्र ग्रहणं न तु प्रयोजनं नाम पदार्थान्तरं तस्यान्यत्रानुक्तत्वेनात्रेति कालविशेषस्याधिकर- णत्वप्रदर्शनमलुपपन्नं स्यात् । अत आस्तरणासादने एव प्रयोजनशब्देन ग्राह्ये इति द्रष्टव्यम्। उक्तं चैतदापस्तम्बे नाव रक्षोहणो वलगहनः प्रोक्षामि वैष्णवमित्यधिषवण: चर्म प्रोक्ष्य रसोनो वो वलगन्नः प्रोक्षामि वैष्णवानिति प्राणो सोहा त्या वळगहा वैष्णवमास्तृणामीत्यधिषवणफलकयोरुत्तरलोमाऽऽस्तीर्य रक्षोधो वो वलगन्नः सरसादः यामि वैष्णवानिति तस्मिश्चतुरो प्रावणः प्रादेशमात्रादूर्ध्वपानूनाहननप्रकारानश्मनः समादयन्त्युपर प्रथिष्ठ मध्ये पञ्चममिति । एतेन करस्वतिमन्त्रकरणकायोजनशङ्क। परास्ता । इतिशब्दोऽत्र समुच्चयार्थे । वायव्यपात्रादिप्रयोननेन सह समुच्चयः ।
अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाः श्येना अतिथयः पर्वतानां ककुभः प्रयुतो न पातारो वग्नेनेन्द्रꣳ ह्वयत घोषेणामीवाꣳश्चातयत युक्ताः स्थ वहत स्वर्गं लोकमभिव- हत यजमानमित्युपरे ग्राव्णः संमुखान्कृत्वाऽभिमन्त्रयते ।
संमुखीकरणस्य यथायथं प्रोक्षणामिमन्त्रणार्थत्वात्प्रतिप्रधानं गुणावृत्तिरिति न्याया- मध्ये प्रोक्षणेन व्यवधानाच द्वितीयं संमुखीकरणमपि भवत्येव ।
आसन्यान्मा मन्त्रात्पाहीत्याग्नीध्रे जुहोति ।
आहवनीयबाधनार्थमाग्नीघ्रग्रहगम् । जुह्वाः प्रचरण्याश्च न्यापृतत्वादाज्यस्थास्या. ज्येन सुवणैवार्य होमः | अपूर्वाज्यादिति केचित् । अत्र मूलं चिन्त्यम् । न च प्रचरणीस्थाज्यैकदेशेन तयैव होमोऽस्त्विति वाच्यम् । एतस्याऽऽज्यत्याने विनिवागस्य विधास्यमानत्वेनात्र तेन होमासंभवात् । अभिशस्त्या इति मन्त्रान्तः ।
हृदे त्वा मनसे त्वेति द्वाभ्यामन्तरेषाꣳ राजानं ग्रावसूपावहरति ।
हदे त्वा मनसे त्वा सोम राजन्नेह्यवरोहेति द्वाभ्यां मन्त्राभ्यामीषामन्तरेणेषयोर्मध्येन नीत्वा संमुखीकृतेषु प्रावमूपावहरति उससादयति । मुरिगनुष्ट छन्दोलक्षणाक्रान्तत्वा- द्यच्छेत्यन्तः पूर्वो मन्त्रः । अर्थादुत्तरः सोम राजन्नेहीति । स्पष्टमाहाऽऽपस्तम्बः- अत्र रानानमन्तरेषे ग्रावसूपावहरति हृदे त्वा मनसे त्वा सोम राजनित्येताम्यामिति । बौधायनोऽपि-दक्षिणस्य हविर्धानस्यान्तरेणेषे राजानमुपावहरति हदे त्वा मनसे स्वा सोम राजन्नेह्यवरोहेति द्वाम्यामिति । - १ ख. ग. 'लदनः । २ स.ग, क्षोह स्वा। । ख. ग. "लदन्नः ! ४ क. प्राधिष्ठं । ५ ख. ग. मन्तरेणथे।