सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७८ - सत्याषाढविरचितं श्रौतसूत्रं-- [(अधमप्र- प्रशब्दो नीडसंबद्धसमीपदेशग्रहणार्यः । नीडसमीपवर्तिविस्तीर्णतिर्यकाष्ठापरपर्यायर्वि- शिष्टे देशे पूतभृतं प्रयुनक्तीति निष्कृष्ठोऽर्थः । एषकारेण नीडासंबद्ध केवलोत्तरहवि. नितिर्यकाष्ठवतो देशस्य सूत्रान्तरोक्तहविर्धानचुबुकस्य च व्यावृत्तिः क्रियते । एतेन ज्ञायते यत्रैवकारो न श्रूयते तत्रासमरे सूत्रान्तरोक्तमपि संमायं यत्र श्रूयते तत्र तदेक नियतमासंभवेऽपीति । पूतभूदित्यन्वर्था संज्ञा । पूतं गालितमेव विभर्ति सोममिति पूत- भूदिति । वक्ष्यति पतिर पवित्र प्तभृत्येकदेशमवनय त्यत ऊर्ध्व पूतभृति तिर पवित्रमे बावनीयत इति । आधवनीयपूतभृतौ मृन्मयावेव । यथोकं बावृत्ये-नभृतमाधवनीय प स्पालीमिति । स्थालीशब्दान्मृन्मयत्वम् ।

पश्चादक्षं तिस्र एकधना स्थाली युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचोऽभिमृशति ।

उत्तरस्य हविर्धानस्येत्येवानुवर्तते । अक्षपदसाहचर्यात् । अक्षस्य पश्चादिति पश्चा. दक्षम् । अयमव्ययीभावः । तिस्त्र इति वचनं पश्चादक्षं तिसणामेव प्रयोग इति निय- मार्यम् । तेनान्यासामेकधनानां यथासंभवं प्रयोग इति सिद्धं भवति । न च तिल एसैकधना इति भ्रमितव्यम् । व्यवरार्धा अयन एकधना स्थालीरादायाऽऽद्रवन्तीति . वरुपमाणसूत्रविरोधापतेः । न मन्त्रलिकाविरोधः । पश्चादक्षं प्रयोक्तव्यासु तिसृण्वेक- धनासु किसानुरोधेन मत्र इतरासु कस्वेत्येव मन्त्रावृत्त्येत्येवंरीत्या लिङ्गविरोधपरिहा- रात् । सोमपर्थनार्थ आप एकवनास्तासां स्थालीमन्मय्य इत्यर्थः । एकधनान्घटानि- स्यापस्तम्मः । विसर्गरहित एवं पाठः । सुचोऽभिमूशनीति सूत्रे मन्त्रानुपदेशात्मधमा- मिमर्श दर्शनाचा आयूषारयनयवाभिमर्शनम् । उदीयानां सुचोऽभिमृशति यभा पुरस्ताविति पाठः सौत्रानुकूल एव । अथवा युनन्मि तिन इत्येष मन्त्रः गभिमर्श- नाक.ए। बापस्तम्भन युनज्मि तिलो विचः सूर्यस्य त इति उचः सन्ना अमिः मत्रपत इति पुषेण शिनियुक्तदात् । तेन पश्चादक्ष प्रयोक्तव्यानां तिसृणामप्ये कध. नानां करत्वेत्येव । म पदाज्यपान्या अपि अभिमर्शसंस्कारस्याऽऽवश्यकत्वेन तया सह खां चतुझेन लिमविरोधात्कषमेतस्य परस्य लुगमिमर्शनकरणत्वमिति वाच्यम् । उपभृत्तमामात्येन्ोपत्रपदाव्यधान्योरेकत्वविवक्षया त्रित्वोपपत्तेलिङ्गविरोधाभावात् । प्रचरण्या यागसंपन्धित्वामान नाभिमर्शः । स्रवत्वस्यास्यामपि सत्त्वात्तस्या अप्यभिमर्श इति आग्रह उपद्वज्जुहूस्वसामात्येन तयोरप्येकत्वविवक्षया त्रिवोपपत्तिर्भवत्येव । वसाहोमहवन्यास्तु रिक्तवान्नाभिमर्शः । तूष्णीमेय सुचामभिमर्श इति केचित् ।

अत्राधिषवणचर्मणो ग्राव्णामिति प्रयोजनमेके समामनन्ति ।

अधिषवणफलकामिमश्रणोत्तरमधिषवणर्मणः प्रोक्षणमास्तरणं ग्राणामासादनमुपरे संमुखकरम तेषां प्रोक्षणं च पटुक्तं तत्तत्र न कर्तव्य किं स्वनास्मिन्काल एक