सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- १५०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । उकारोऽपिशब्दार्थकः । एषाऽप्येका दीक्षा । एवमुक्ते सत्यप्यन्याऽपि काचिद्दीक्षाऽ. स्तीति सूचितं मवति । अत एव सूत्रकार इष्टिपूर्वत्वं सोमपूर्वस्वं चेत्युभी पक्षादान- हार । लाट्यायनद्राह्मायणावाहतुः-प्रथमायां पूर्वपक्षस्य दीक्षेतेषो एका दीक्षा दृष्ट्वा वा नक्षत्रयोगमिति । नक्षत्र योगमित्यस्यायमर्थः-चैत्र्यादिपौर्णमासीयु चित्रादिनक्षत्रयोग दृष्ट्वा दीक्षतेति । अमावास्यायां सुत्यायों तु शास्त्रान्तराद्वादशैव दीक्षा नियताः । पूर्व- पक्षयागविधायिका श्रुतिस्तु आदेशव्यतिरिक्तस्थल एवेति दर्शितमेव प्राक् । अमावा. स्यायां दीक्षा पौर्णमास्यां सत्येत्यस्मिन्कल्पे दर्शपूर्णमासेष्टी अतिपन्ने तदर्थ ऋतुसमाप्त्य- नन्तरं पधिकृवैश्वानयाँ कायौँ । यदि द्वितीयादिप्रयोगोऽनयोः । एकस्या अतिपातने पाथिकृती वैश्वानरी वा । पौर्णमास्यां दीक्षाऽमावास्यायामावर्तनप्राक्कालिकसंधिमल्या मुत्या यदा तदा पौर्णमासदर्शातिपातने दोषो नेति कचित् । यदाऽऽवर्तनोत्तरकालिक. संधिमत्याममावास्यायां दीक्षाऽऽवर्तनप्राकालिकसंधिमत्यां पौर्णमास्यां सुत्या तदा तु पूर्णमासस्य चैकापूर्वजनकत्वनिर्वाहान्यथानुपपत्त्या लोपप्रायश्चित्तं कर्तव्यमेवेत्यवश्य- मङ्गीकर्तव्यमेव । यदा तु प्रथमः पूर्णमासस्य लोपोऽनन्तरं दर्शस्य तत्र प्रायश्चित्तं नैवेति द्रष्टव्यं सुधीभिः । जुहोतेणं यजतेरुपलक्षणम् । आधानानन्तरं प्रथमसंवत्सरे घसन्ते सोमारम्भः कर्तव्य इति यानिकप्रसिद्धम्। तत्र वसन्तश्चान्द्रप्सौरभेदेन द्विविधः । पैत्रवैशाखात्मकमासद्वयात्मा चान्द्रः । मध्ये मलमासेऽपि षष्टया तु दिवसासः कथितो बादरायणैः । इति स्मृतमसिद्धगात्मक एको मासस्तेन मासद्वयात्मकत्वं न विरुध्यते । मासद्वयात्म. कत्वं वसन्तर्मिधुश्च माधवश्च वासन्तिकावृतू इत्यनया श्रुत्या । सौरो वसन्तस्तु मीनमेषात्मको मेषवृषात्मको वा । मीनमेषयोर्मेषवृषयोर्वा वसन्त पायनोक्तेः। अनयोविनियोगः स्मृतौ-- श्रौतस्मातक्रियाः सर्वाः कुर्याचान्द्रमसतुषु । तदभावे तु सौरतुष्विति ज्योतिर्विदां मतम् ॥ इति । एतादृशद्विविधवसन्तान्तर्गतपर्वमु मध्ये यत्पर्व मलमासास्तादिक्षितं न भवति तत्रैव सोमस्य कर्तव्यत्वात्तदर्थ निर्णयः क्रियते । तत्र कालादर्श स्मृतिः- अनित्यमनिमित्तं च दानं च महदादिकम् । अग्न्याधानाध्वरापूर्वतीर्थयात्रामरक्षणम् ।। देवारामतडागादिप्रतिष्ठा मौजिबन्धनम् । आश्रमस्वीकृतिः काम्यवृपोत्सर्गश्च निष्क्रमः ॥ 7