- ७३४ सत्याषाढविरचितं श्रौतसूत्रं- सप्तमप्रश्ने- पाशुकवचनस्याऽऽवश्यकत्व स्वधित्यादीनामेवाताधारणत्वेन पाशुकस्वात्तेषामेव प्रयोग इति शङ्का स्यात्तां वारयितुं पात्राणीतिवचनम् ।
यत्प्रागाज्यग्रहणात्तत्कृत्वा प्रतिहृत्य गार्हपत्ये पाशुकान्याज्यानि गृह्णाति ।
जुहूपभृतोश्चतुर्ग्रहीते गृहीत्वा तृतीयमाज्यस्य दधन्यानीयेत्यादिना पशुबन्धो केन प्रकारेणेत्यर्थः । गाईपत्य इति सप्तम्यन्तेनैव प्रतिइत्येत्यस्यान्वयः । प्रतिहरणं प्रती- चीनं हरणम् । गार्हपत्य इति समीपसप्तमी । गार्हपत्यसमापदेशे प्रतीचीन हत्या तत्रैव पाशुकान्यायानि गृह्णातीत्यर्थः । प्रतिद्वत्येत्यत्रान्तर्भावितो णिज्द्रष्टव्यः । भन्यथा गार्हपत्ये पाशुकान्याउगानि गृह्णातीत्यनेनैवार्थारप्रतीचीनहरणे सिद्ध प्रति- हत्य त्यस्य वैयऱ्यांपत्तेः । प्रोक्षण्यासादनमातिध्यावहिषा यावाप्रदेश आस्ती- यते तावतः प्रदेशस्य पश्चार्धे वितृतीयदेशे मवति । अत्र प्रचरण्या: पात्रप्रयोग काले प्रयोगो नैव भवति । सुत्यायामेव तद्विधानात् । प्रचरण्यामाज्यग्रहणकाले प्रथमं न ग्रहगं तस्यापि सुत्यायामेव विहितत्वात् । अन्तेऽपि च न वैतर्ननहोमकाल एव तस्य विहितत्वात् ।
एवा वन्दस्वेत्युपस्थे ब्रह्मा राजानं कुरुते ।
अपोइत्याऽऽज्यस्थालीमित्यन्तेऽध्वर्युणा कृते । उपस्थः पादकियासविशेषरूपास- नविशेषः । तस्मित्राजानं सोमं कुरुते स्थापयतीत्यर्थः । ब्रह्मस्वसूत्रेणैव सेत्स्यति सत्यत्र पुनर्वचनं प्रयोगक्रमज्ञानार्थमुपस्थे राज्ञः स्थापनादनन्तरमेवाऽऽदानं ग्रावादीनां न तत्पूर्वमिति । अत्र मन्त्रवचनं मन्त्रावचनापक्षे तूष्णीत्वमपि स्यात्तयावर्तयितुम् । अब ति पदच्छेदो वाऽत्र । ब्रह्मव्यतिरिक्तो यः कश्चनविक्तद्गणस्थोऽन्यो वोपस्थे राजानं कुरुत इत्यर्थः । इदं च ब्रह्मत्वमूत्रे वक्ष्यमाणेन विधिना विकल्पते । ब्रह्मोपस्थे राजानं कुरुते ब्रह्मव्यतिरिक्तो यः कश्चनत्विग्वेति । अस्मिन्ब्याख्यानेऽपि मन्त्रवचन ब्रह्मव्यतिरिक्तर्विगर्थमपोक्षितमेव । अन्यथा तूष्णीत्वतादवस्थ्यापत्तेः ।
आददते ग्राव्णो वायव्यानि द्रोणकलशं चमसानातिथ्याबर्हिरिध्ममाज्यान्यग्नीषोमीयं चानुनयन्ति ।
आददत इत्यनन्तरं परिकर्मिण इति शेषः । कर्तृसमुदायापेक्षमत्र बहुवचनम् । पावादीमान्तानां रज्ज्वा बद्ध्वा तया वहनेनाप्यनुनयनं संमत्रति । अत भादानवि. चिरिति चेत् । तस्य मावादिचमतान्तानां भङ्गेनैव निवृत्तत्वात् । अर्थादेवाऽऽदानविधी सिद्धे वचनं व्यर्थमिति चेत्सत्यम् । तस्य ब्रह्मकर्तृकाद्राज्ञ उपस्थे स्थापनादनन्तरमेवाss- दानं यथा स्यानतु पूर्वमपाच्छया कदाचिदपोत्येतादृशार्थज्ञापनार्थत्वेन वैया भावात् । ग्रावाणः प्रसिद्धाः । वायव्यानि ऊर्ध्वपात्राणि । द्रोणाकारः कलशो द्रोणकलशः ।