सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०० सत्यापाढविरचितं श्रौतसूत्रं- [ सप्तमप्रश्ने-

ऊर्ध्वाः शम्याः समुत्कृष्योपरिष्टात्परिवेष्टयतो यथा सुष्ठु।

ऊर्ध्वा उत्पाट्याधःकुम्बाः प्रतिमुच्य रज्ज्वोपरिष्टात्परिवेष्टयतो यथा न पततस्तथा दृढं परिवेष्टयत इत्यर्थः । ऊर्ध्वत्वे हेतुभूतां श्रुतिमाहाऽऽपस्तम्धः-उत्ताना हि देवगवा वहन्तीति विज्ञायत इति । हिहती।

पर्यन्त्याः स्थूणा मिनुतः ।

पर्यन्तमर्हन्ति पर्यन्त्याः । दण्डादित्वायत्प्रत्ययो नतु पर्यन्ते भवा इति । तत्र मवनाभावात् । अथवा भवनमत्र सत्तारूपं द्रष्टव्यम् । सत्ता चात्र भाविनी ज्ञेया । स्थूणा द्विशाखास्तम्मा मिनुतः खनतः । साध्यानार पडहेन स्वर्गकामः पृष्ठयः षडहो बृहद्रथंतराभ्यां यन्त्याश्वत्थी हविर्धानं चाऽऽनीधं च भवतश्चक्रीवतो मत्रत इत्यत्राश्व- स्थवृक्षनियमादत्र स्थूणानां वृक्षा अनियता यज्ञिया ज्ञेयाः । अत्रापि यथा सृष्टविति पदमन्वेति ।

यथाऽग्रेण खरꣳ संचरो भवति ।

यथाऽप्रेण खरं संचरो मार्गों भवति तथा मिनुत इति पूर्वेणान्वयः ।

अग्रेण हविर्धाने स्थूणे निहत्य तयोरुदगग्रं वꣳश निधाय प्राचो वꣳशानादधाति ।

अग्रेण हविर्घाने स्थूणे निहत्येत्यनेनेदं ज्ञायते हविर्धानाने हविर्धानमण्डपार्धे यथा भवतस्तथा स्थापनीये तदग्रसमीपे एते स्थूणे । एते च स्थूणे मण्डपमध्यस्थे मण्डपा- धारभूते भवत इति । तयोः स्थूणयोः, उदर, अमं यस्य स उद्गग्रस्त मुद्गग्रम् ! एतादृशं वंशं वेणुस्तम्भ निधाय स्थापयित्वा प्राचः प्राचीनाग्रान्वंशान्सर्वतः पर्याप्तानि- दधाति स्थापयति ।

विष्णोः पृष्ठमसीति मध्यमं छदिरधि निदधाति ।

अधि उपरि वेशेषु परिशेषादितरे तूष्णीम् । तूष्णीमितरे छदिषी अध्यूझे त्ये- वाऽऽपस्तम्बः।

विष्णो रराटमसीति पुरस्ताद्रराटीं परिश्रयति ।

पुरस्तात्पुरोमागे करिष्यमाणद्वारप्रदेशे रादी वक्ष्यमाणलक्षणां परिश्रयति उपरि- टाच्छ्लेपयतीत्यर्थः। तस्याः स्वरूपमाह:-

तेजनी रराट्यैषीकी प्राच्यणूकाण्डा मध्ये विततां तां वꣳशे निबध्नाति ।

तेजनी यष्टिः । यथोक्तं बाढच्ये-तेजन्या उभयतोऽन्तयोरिति । चतुर्थः संधि- हीपुरनो शल्यस्ते ननं पर्णानीति च । सोमः शल्यो विष्णुस्तेननमिति च । ब्राह्म- + सूबपुस्तकेषु अणुकाण्डति इस्वपाठो लभ्यते । "