सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९८ सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रश्ने-

अपजन्यं भयं नुदाप चक्राणि वर्तय गृहꣳ सोमस्य गच्छतमिन्द्रस्य सꣳसदमिति पश्चार्धे वेदेर्वितृतीयदेशे मनसा होता पदा जन्यं भयं प्रतिनुदत्यध्वर्युर्यजमानो ब्रह्मा वा ।

भयं प्रतिदित्यध्वर्युर्यजमानो ब्रह्मा वा । यात्रुषहौत्रसस्त्रेऽत्र होतृकर्म याजुपरीत्यैव वेदेमहावेदेः पश्चार्थे, कथंभूते वितृतीय- देशे विगतस्तृतीयो देशः पश्चार्यः पूर्वार्यो वा तस्मिन्होता मनसा मन्त्रमुक्त्वा पदा पादेन जन्यं जनसंबन्धि मयं प्रतिनुदति निरसनमुद्रया पांसुप्रत्यसनेन वा दूरी करो- तीत्यर्थः । मन्त्रपाठेनैवात्र दूरीकरणम् । आच्छिद्रिकपनान्तर्गतेन गच्छतमित्यन्तेन ..मन्त्रेणायं विकल्पः । तच्च भयं कर्मण एव नतु होनवयुयजमानबह्मणाम् । विकल्प स्वरसादयमों लभ्यते । अत्र पादस्यानिर्दिष्टाङ्गत्वेऽपि दक्षिणवचनाभावादनियमः होतृशब्दार्थों बचबामणे यदेवामुमावहामु मावहेत्यावाहयति तदेव होतुझेतृत्वमिति । जुहोतीति होतेति व्युत्पत्तिर्नानोपयुज्यते । अतिप्रसक्तत्वात् । तत्र वैकल्पिकान्कर्तृ- नाह-अध्वर्युरित्यादिना । अध्वर्युशब्दव्युत्पत्ति ध्वर्युः सोम विचिनुयादित्येतत्सूत्र- व्याख्यानावसर उक्ता। यजमानशब्दव्युत्पत्तिस्तु अग्निष्टोमयाजमानसूत्रे वक्ष्यते । ब्रह्मशब्दव्युत्पत्तिर्मदन्तीभिः पाणीप्रक्षालयन्ते ब्रह्मा राजानं वित्रसयतीतिसूत्रन्या- ख्यानावसर उक्ता।

अपरेणोत्तरवेदिं त्रीन्प्रतीचः प्रक्रमान्प्रतिविक्रम्यात्र रमेथामित्यभितः पृष्ठ्यां नभ्यस्थे स्थापयतः ।

उत्तरा चासी वेदिश्चोत्तरवेदिः । उत्तरत्वमुत्कृष्टत्वम् । स चोकर्ष ऐष्टिकपाशुक. सौमिकादिबहुतन्त्रार्थकाम्यधिकरणत्वरूपगुणाधिक्यात् । सपत्नीवाधनार्थकसूक्तान्तर्गत उत्तराऽहमुत्तर इत्यस्मिन्मन्त्र उत्तरशब्दस्योत्कर्षार्थत्वदर्शनात् । योगरूढं पदम् । प्रतीचः प्रत्यक्संस्थान् । त्रीनिति वचनं चतुरादिव्यावृत्त्यर्थम् । प्रतिशब्द जतया प्रक्रमाः क्रमितव्या इत्यर्थं द्योतयितुम् । विशब्दो येन पदेन प्रक्रमेण वा मानं कृतं ततोऽप्यभीष्टानुरोधेन माने वृद्धि गमयति । उत्तरवेदिपश्चार्यशङ्कुमभितो दक्षिण उत्तरे चापरभागोऽत्र विवक्षितः । अमितःपरितःसमयानिकषाहाप्रतियोगेऽपोत्यनेन पृष्ठ्यामिति द्वितीया । यथोत्तरवेदेः पश्चादभीष्टवृद्धिमत्सु त्रिषु प्रक्रमेषु हविर्धानयो- नभ्यस्थे भवतस्तथा पृष्ठ्यामभितोऽनसी स्थापयतः । दक्षिणस्योत्तरं नभ्यस्थमुत्तरस्य दक्षिणं नभ्यस्थमभितः पृष्ठयां भवति । नभ्यं चक्र तस्य यन्मध्यम फलकं यत्र नामिः कियते मध्येनभ्यमिति लिङ्गात् , तत्फलकाधारफलकस्थिते चके स्थापयतः । तेन चक्राधारत्वेन स्थिते भवतो न भूमिस्थिते भवत इत्यर्थः । हविर्धानयोः परिशिष्टचक्र. १ज.स नह.प्रक।