पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रं- [ तृतीयप्रो-

प्राचीनं गारह्पत्यायतनादाहवनीयायतनमुद्धन्ति बाह्यत इतरयोः ।

उद्धन्तीतिमत्रसंपन्धार्थ पूर्वाभ्यां पराभ्यां चाऽऽयसनाभ्यामाहवनीयामारस्य पृथ- ग्दर्शनादन्योदग्वंशा शालाऽऽहवनीयार्थे कर्तव्या तस्याः सम्यावसथ्ययोः शालाया उदवंशाया बहिस्तयोरपि स्वतन्त्रे एव शाले प्रयोजनान्तरप्रयुक्ते । सभा तु देवन. शाला, आवसथोऽतिथिशाला तयोर्भवौ सम्यावातल्यौ तयोरायतने न तूदीचीनवंशायाम् । गाईपत्यात्प्राचीन कियति प्रदेश आहवनीयायतनं तत्राऽऽह--

द्वादशसु विक्रामेष्वग्निमादधीतेत्यविशेषेण श्रूयते ।

द्वादशसु विक्रामेष्वग्निमादधीतेति ब्राह्मणे वर्णविशेषेण मानं श्रूयतेऽतस्तेषां त्रैव. णिकानां निषादरथकारयोरपि भवतीत्यर्थः । विक्रामः प्रक्रमशब्देन व्याख्यातः प्रक्रमो व्याख्यातो वैकल्पिकः।

अष्टासु ब्राह्मणस्यैकादशसु राजन्यस्य द्वादशसु वैश्यस्य ।

पूर्वेण पूर्वयोर्विकल्पः।

चतुर्विꣳशतिरपरिमितं च साधारणे ।

सर्ववर्णानामित्यर्थः । अपरिमित आदधीतेत्यस्यार्थमाह-

चक्षुषा प्रक्रमान्प्रमिमीतेति विज्ञायते ।

अपरिमितशब्दस्तु ब्राह्मणेन चक्षुनिमित आदधीतेत्यनेनैव व्याख्यात इत्यभिप्राये- णाऽऽह विज्ञायत इति श्रुत्यैव विशेषो ज्ञायते । चक्षुषा मानं कुर्यादेतावन्तो विक्रमा भविष्यन्तीति प्रमिमीत न तु दण्डादिनत्यपरः पक्षः । पूरेव मानर्विकल्पते । एतत्प- सद्वयमपि सर्वेषाम् ।

प्राचीनमाहवनीयात्सभा तत्र सभ्यस्य प्राचीनमावसथः सभायास्तत्राऽऽवसथ्यस्य ।

आयतनमित्यनुषङ्गः सर्वत्र ।

एवमनुपूर्वाण्येषां कर्माणि क्रियन्ते ।

एषामायतनानामग्नीनां च संस्कारकर्माणि येन क्रमेणाऽऽयतनानि दर्शितानि तेनैव क्रमेण क्रियन्ते न तु प्रादक्षिण्येन । उद्धन्यमानमिति प्रत्यायतनमावर्तते क्रमेणोद्धन्ति । । - १ घ. इ. ज. स. अ. द. 'सु प्रक्रमे ।