पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ सस्पाषाढविरचितं श्रौतसूत्र- [ २ तृतीयपने-

त्रयाणा लिङ्गान्याह-

गायत्रिया ब्राह्मणस्य परिदध्यात्त्रिष्टुभा राजन्यस्य जगत्या वैश्यस्येति ।

इतिशब्दः प्रकारे । एवंप्रकाराण्यन्यान्यपि वेदितव्यानीत्यर्थः । एवमधिकार संभाव्येदानी कर्मस नियतान्याह-

तेषामग्निहोत्रं दर्शपूर्णमासौ च नियतौ ।

सहाऽऽधानेन पूर्वभाविवादकरण उपपातकस्मरणाच । अत एक नियतेषु पाठः । तेषां ब्राह्मणविहितानां यज्ञानां मध्ये यावन्नीवमग्निहोत्रं जुहुयाद्यावजी दर्शपूर्ण- मामाभ्यां यनेतेति नियतनिमित्तताश्रवणात् । बामणे विशेषमाह-

सोमेज्या ब्राह्मणस्य ।

ऐन्द्राग्नं पुनरुत्सृष्टमालमेत्तेति तथाऽऽश्विनं धूम्रललाममालभेतेत्यत्र ब्राह्मणस्यैक प्रायश्चित्तत्वेन विधानात्तस्य सोमेज्या नियम्यते । दौर्बाह्मण्यत्रात्यस्वपरिहारायाग्नि- होत्रं दर्शपूर्णमासौ तु सुतरामित्यर्थः । भारम्भनियमविशेषमाह-

आधानादग्निहोत्रं दर्शपूर्णमासौ च नियतौ ।

आधाने कृते दर्शपूर्णमासयोरव्यवधानेनाऽऽरम्भो नियम्यते । सोमेज्या ब्राह्मणस्य नियताऽपि न तस्या आधानाव्यवधाननियमः । चकारोऽन्यतरस्यैव नियमो मा भूपि तूभयेषामपीति दर्शनार्थः । न वक्तव्यमेतत्तेषां व्यवधानेऽग्निनाशप्रायश्चित्तश्रवणात् । वक्तव्यम् । काम्याथै सत्यां कामनायामारम्भोऽसत्यामनारम्भ इति मा भूदित्येवमर्थम् । न च सत्यामारम्भस्तन्निमित्तः कथम् । असत्यां तु नियतानामेव भविष्यतीत्येवमर्थम् । सत्यां तु काम्येनैवाकरणनिमित्तः प्रत्यवायोऽपि परिहियत इत्युक्तत्वात्तस्मान्न निःश्रे- यसमित्येतावान्विशेषः । तथाऽप्यन्यत एव सिध्यत्येतसावधानदोषो भवतीति । तहिं काम्यारम्भे सत्यासत्यां कामनायामत्यागार्यमेतद्भविष्यति । नियतारम्भे यथा यावज्जीव मत्यागस्तथा काम्यारम्भेऽप्यसत्या कामनायां तेषां त्यागेन नियतारम्भो निषिध्यते न ह्यारम्भस्याऽऽधानाव्यवहितकालं विनाऽन्यः कालोऽस्तीति कामनात्यागे सायं- प्रातः प्रयोगमात्रेण यावदिष्टेन काम्यसमाप्तौ तदनन्तरं प्रयोगा यावज्जीव निःश्रेयसार्था भविष्यन्तीति न पृथगारम्भनिमित्तं सप्तहोतृहोमादिकमन्वारमणीयादिकं कार्यमिति तात्पर्यम् । 1 ।