पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i .३ प्र० पटरः] महादेवकृतवैजयन्तीक्ष्याख्यासमेतम् । २७७

'नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । शुश्रूषयति भर्तारं तेन स्वर्गे महीयते ॥ इति । तस्मादृपनीताधीतानां त्रैवर्णिकानां तज्जातिस्त्रीणां च ब्राह्मणविहितेष्वाधानानि होत्रदर्शपूर्णमासादिकर्मस्वधिकार इति सिद्धम् । ननूक्तेन न्यायेनोपनयनाध्ययने अपि स्त्रियाः प्राप्नुतो ब्राह्मणमित्यादिषु लिङ्गाविवक्षणात् । सत्यम् । उपनयनस्थाने नारीणां पाणिग्रहणमेव संस्कारत्वेन स्मर्यते । विवाहानन्तरमध्ययनं यावदमेवार्थप्राप्तत्वात्तस्या भन्यमन्त्रोच्चारणे शूदवदेव प्रतिषेधादेवं निषादरथकारयोरपि । तदुक्तम्- 'स्त्रीशूद्रद्विमबन्धूनां त्रयी न श्रुतिगोचरा ।' इति । किंचाष्ट वर्षों ब्राह्मण उपयच्छेत्सोऽधीयीतेति कर्तलिङ्गस्य विधेयस्य विवति- तत्त्वादुपनयनाध्ययनाभावः। त्रैवर्णिकेष्वप्यपवदति केषुचित्-

यथा द्रव्यवत्ता शरीरकार्त्स्न्यं च ।

भविप्रतिषिद्धम् । द्रव्यं दायं तद्यस्य विप्रतिषिद्धं नास्ति । दायमाक्त्वेन द्रव्य- वत्ता स एव(१)नास्ति च षण्दादीनां दायमिति वक्ष्यते । अतस्तेऽशुचित्वेनानाधिका- रिणोऽति(!) दायप्रतिषेधोऽशुचित्वादेव स्मर्यते । तथा शरीरकास्न्यमङ्गानुष्ठानं न विप्र- तिषिद्धं न विरुद्धं तेषामेव ते यज्ञा नान्येषामन्धपङ्खमूकबधिराश्रोत्रियाकिंचनानाम् । भाज्यावेक्षणविष्णुक्रमणमन्त्रोचारणसंबोधनयाजमानदक्षिणासु यज्ञाङ्गेषु विरोधः स्यात् । अनधीतस्यापि त्रिवृदग्निष्ठत्प्रायश्चित्तत्वेन विहितः साधुवृत्तस्याऽऽधानादिकर्मसाद्गुण्यार्य ततो भवति तस्याप्यधिकारो नित्यनैमित्तिकेषु च । अकिंचनस्यापि नित्यविष्ठिपशु- चातुर्मास्यसोमेष्वन्वाहार्यमात्रस्य. दक्षिणाया विधास्यमानत्वारप्रतिप्रसवः । तथा मृत- भार्यस्य दारकाशक्तस्य स्वार्थमाधान कल्पसूत्रे वक्ष्यते तस्य विना मार्ययाऽपि । कल्पसूत्र एव पक्षे पत्नी निर्मन्थेन दहन्तीति तत्राप्यमयः स्वार्थमेव स्थापनीया अभा- येणापि नित्यं कार्यम् । त्रैवर्णिकानामेषाधिकार इति द्रढयति लिने:-

येषां च प्रकृतिलिङ्गानि यज्ञाः श्रूयन्ते त्रीन्वृणीते मन्त्रकृतो वृणीते यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ।

माझणे विज्ञायत इति दादयार्थम् । प्रकृति तिस्तस्या निर्णायकानि लिङ्गानि यज्ञा यज्ञसाधनानि न हि प्रवरमन्येषामस्ति ब्राह्मणादित्रयव्यतिरिक्तानाम् । तत्र पुरोहिताविप्रवरेण रानन्यवैश्ययोब्राह्मणस्य खतः प्रवरं स्पष्टम् । घ.. ज.स.म.क. यज्ञे।