पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र. पटलः] महादेवकृतबैजयन्तीष्याख्यासमेतम् । २७५

धर्मप्रभ वक्ष्यमाणया। यदाऽऽचार्यमुखाद्धर्मप्रश्नप्रदृश्यमानोपनिषदां परिशीलनं स्पाच्छु. धणादिना सदैव साक्षात्काररूपा बुद्धिरुत्पद्यत इति भावः । एवं नियतकर्मणां निःश्रेयसफलतामभिधाय यज्ञशब्देन श्रौतकर्ममात्रमेव गृहो- तमितिब्युदासार्थ प्रयुक्तेन कर्मशब्देन सूचितं सर्ववर्णाश्रमकर्मणां ताइक्वं तदेवोदाइ. एणमुखेन द्रव्यति-

अतिथिपूजागुरुपूजासंनिपाते चाभिवादनम् ।

एतनियतमित्यग्रिमेण संबन्धः । सामयाचारिकेषु धर्मेषु व्याख्यास्यमानत्वाको- कहतानि लौकिकानि, गुरोः समागमे गुरोरभिवादन, स्पष्टमन्यत् । श्रौतमनेष्टासाध्यमुदाहरति-

तत्कारितत्वाद्ब्राह्मणराजन्ययोर्वैश्यस्य च वेदाध्ययनं तन्नियतम्।

अध्यापकैस्तद्वक्ष्यमाणमध्ययनं तस्मै कारिता अध्ययनार्थं कारिताः संस्कारिता- स्तेषां मावस्तेषां संस्कारितत्वं तत्कारितत्वं तस्माद्धेतो ह्मणादित्रयस्यैवाध्ययनं तच्च नियमित्यर्थः । ब्राह्मणादय एव वसन्तादिकालेष्वध्पापकैरध्ययनार्थत्वेन संस्कृता मतस्तेषामेवाध्ययनम् । वक्ष्यति च-अशुदाणामदुष्टकर्मणां विद्यार्थिनां श्रुतितः संस्कार इति । अयमाशय:-अध्ययनं यद्यपि वैदिकफलार्थिनां फलसाधनज्ञानाय सर्वेषामपि मामुयात्तथाऽपि च तदुपनीतानामेव विधीयते । उपनयनं वसन्तादिषु कालेषु त्रैवर्णि- कानामेवातस्तविनाभूतमध्ययनमपि तेषामेवेति । वैश्यस्याप्तमासग्रहणं माह्मणेन सह कर्मनिरासार्थ द्वादशाहादौ । एवं वर्णत्रयस्याध्ययनं नियतमित्युक्तम् । तेन प्रसङ्गेन मोक्षाद्विना फलार्थिना- मपि त्रैवर्णिकानामपि न सर्वकर्मानुष्ठानमिति दर्शयितुमधिकारिनियममाह-

तेषामेव ब्राह्मणविहिता यज्ञा येषु यज्ञकार्त्स्न्यमविप्रतिषिद्धम् ।

येषु त्रैवर्णिकेषु यज्ञस्य साङ्गस्य कास्न्य विद्वत्ताऽर्थवत्ता सवर्णस्त्रीपरिग्रह अत्वि. गादिसंपत्ति ह्या समग्रा तेषामेव यज्ञा न तु परमुखेन पृष्ट्वाऽपि कर्तारो भवन्ति । तथाऽथ संपादयिष्यामीति । अत एव-'यस्य त्रिवार्षिकं धान्यं स तु सोमं पिबेतिनः' इत्यादि । तथा स्त्री नासवर्णी मन्त्रपाठमात्रवती सत्यधिकृता तेषां त्रैवर्णिकानाम् । स्त्री पुंक- चेति पुमान्त्रियेति च सूत्राम्यामेकशेषेण तेषां त्रैवर्णिक्यः स्त्रियोऽपि गृह्यन्ते । एवकारः फलकामिनामपि शूदाणामन्याधानादिप्रापकलिङ्गनिरासार्थः । ब्राह्मणेनेति , क.ग. च.क.ट..ण, कान्यें।