पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ सत्यापाढविरचितं श्रौतसूत्रं- [ श्तृतीयप्रभे-

च साधनत्वेन यागस्य श्रवणं तत्र साध्यापेक्षा भवतीतिकर्तव्यतापेक्षा वा । न पात्र साधनत्वम् । तस्माद्विगुणादपि फलं भवति । अङ्गाम्नानं तर्हि किमर्थम् । काम्यप्रयोग- विषयमित्यदोषः। किंच प्रायश्चित्तविधानाच्च । विगुणेऽपि नित्ये प्रायश्चित्तं विधीयते मिन्ने जुहोति स्कन्ने जुहोतीत्येवमादि । यदि हि विगुणं फलं न साधयेत्, प्रायश्चित्त- विधानवैयर्यप्रसङ्गः स्यात् । तथा च दृष्टं विगुणमपि नित्य कर्म यथाकथंचित्परि- समाप्यमानम् । व्यत्ययो म स्यात्, केन जुहुयादिति ब्रीहिथवाम्यामिति । यद्रोहि- पवौ न स्यातां केन जुहुयादिति या अन्या ओषधय इत्येवमाद्यभिधाय पुनरुपसंह. रति न वा इह तर्हि किंचनाऽऽसीदथैतदवहूयते सत्यं श्रद्धायामिति । यथाकथं. चित्परिसमाप्तिं दर्शयति । न चैते विधयो विधिविभकेरभावात् । तस्माद्विगुणं नित्यं फलं साधयत्येव । अपरेऽन्यथा व्याचक्षते-गुणाम्नानसामन्नित्यं सगुणमेव कर्तव्यम् । सूत्रव्याख्या च विगुणेऽपि नित्ये फलाभिनिवृत्तिभवत्येव । यदि नाम दैवान्मानुषाद्वा प्रतिबलात्सर्वाङ्गोपसंहारो न शक्यते कर्तुम् । कतिपयानोपसंहारेणापि कर्तव्यमेव । यथा शक्नुयादित्युपपदार्थोऽत्र परिकल्पते । सर्वदा कर्तव्यं सगुणं चेत्य- शक्यमेवावश्यंभावि दैवान्मानुषाद्वा प्रतिबलाद्वैगुण्यमिति । एवं कृत्वा विकृतौ नित्ये कर्मणि प्राकृता पदार्थानुवृत्तिदृश्यते । यथा वरुणप्रघासेषु अथाध्वर्युरेवाऽऽहाग्निमनी- संमृड्ढोत्यसंमृष्टमेव भवति संप्रेषितमथ प्रतिप्रस्थाता प्रतिपरैति स पत्नीमुदानयन्निति पत्न्यानयनविधिपरे वाक्येऽग्निसमार्गप्रैषं दर्शयति । तथा महापितृयज्ञे स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णातीत्येवं विधिपरे वाक्ये लेखाकरणहरणोत्तरपरिग्रहादीपदार्था- ननुवदति । यदि हि नित्यस्याङ्गसंबन्धो न स्याल्लेखाकरणहरणाद्यनुवादो नाभवि- ध्यत् । भवति च तस्मान्नित्यानामप्यङ्गसंबन्धः । पशौ च दर्शयति-उत्तरमाघारमाघा. योसंस्पर्शयन्खुचौ पर्यत्य जुह्वा पशु समनक्तीति । पशुसमञ्जनविधिपरे वाक्य उत्तराधार दर्शयति । यचोच्यते न यागेनान्यसाध्यत इति । आम्नानसामर्थ्यादुपात्तदुरितक्षयो वा, उत्पत्सुदुरितासंबन्धो वा भवत्येव । तस्मानित्येऽप्यङ्गसंवन्ध इति कात्यायनाचा- येणोक्तं ज्ञेयम् । कर्ममिनिःश्रेयसं प्राप्यमित्युक्तम् । तथा मध्ये वेदनेच्छालक्षणं द्वारं चोक्तं, निःश्रेयसप्रापकं ज्ञानमेवोत्पाग्रं कर्ममिरित्युक्तम् । तत्र कर्मसाध्या यद्यपि जिज्ञासा भवेन्नैतावता ज्ञानसिद्धिरित्याशङ्कयाऽऽह-

निःश्रेयसबुद्धिः प्रजनसंबन्धापेक्षा ।

निःश्रेयसप्ताधनभूता बुद्धिस्तथा सा च प्रकृष्टो जन आचार्यो ब्रह्मवित्तरसंबन्धमपे. क्षते । आचार्यवान्पुरुषो वेदेति श्रुतेः । न कर्मानुष्ठानमात्रेणापि तु वैराग्यादिसंपत्त्या १५., ज. स.दु. 'ननसं।