पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३०पटलः ] महादेवकृतवैजयन्तीभ्याख्यासमेतम् । २५३

भोयादिति । तस्मादाग्रयणेऽपि न याथाकाम्यम् । पशावप्येवम् । निरूढं प्रकृत्याss. मनन्ति, तं. तं वै संवत्सरो नानीजानस्यातीयादिति । सोमे वैकेषां ज्योतिष्टोपस्य निमि- त्तम् | यथा यावजीवमग्निहोत्रस्य । एके पुनरन्यथा वदन्ति । ज्योतिष्टोमेन स्वर्ग- कामो यनेतेति फल्युक्ता चोदना । तस्मादिह याथाकाम्यमा(मत्रोच्यते पृथक्प्रयोग एवायम् । एकः स्वर्गकामप्रयोगोऽपरो नैयमिकः कर्तृधर्म इति । एवं च कृत्वा गवा- मयनश्रवणम् । कथमेषां सोमोऽनन्तरितो भवतीति । सवनैरिति । सवनैरिति ब्रूया. दिति । यदवश्यं कर्तव्यं तस्य कारणान्तरेणानन्तराय उच्यते । तस्मादत्रापि न याथाकाम्यम् । तथा च स्मरणम्- कृतानां पशुप्तोमानां निष्कृत्यर्थमसंभवे । इष्टिं वैश्वानरी नित्यं निर्वदब्दपर्यये ।। चातुर्मास्येषु चतुर्मुखश्रुतेः । चातुर्मास्येषु च न याथाकाम्यम् । कुत एतत् । ऋतु। मुखश्नुतेः । प्रस्तुमुख ऋतु मुखे चातुर्मास्यैर्यनेतेति श्रूयते । किंच, नियतमहपाठात् । अपि च नित्यैः सह चातुर्मास्याना पाठो भवति त एतान्यज्ञऋतूंस्तेनिरेऽग्निहोत्रं दर्श. पूर्णमासौ चातुर्मास्यानि पशुबन्धं सौम्यमध्वरमिति । नियतसहपाठोत्तत्तुल्यता गम्यते । दर्शनाच्च । दृश्यते चायमर्थो यथा नित्यानि चातुर्मास्यानि । गवामयनयाजिनं प्रकृ. त्योच्यते कथमेषां चातुर्मास्यान्यनन्तरितानि भवन्ति । दीक्षितत्वात्तेषां प्रतिषेधै सक्ति कारणान्तरेण चातुर्मास्यानामनुग्रहं दर्शयति पयस्ययेति ब्रूयादिति । यच्च नामावश्यं कर्तव्यं तस्य कारणान्तरेणानुग्रहो भवति । अपरे तु सर्वकर्मविषयं दर्शनं मन्यन्ते कथमेषामग्निहोत्रमनन्तरित भवति । कथभेषां पौर्णमासं हविरनन्तरित भवत्येवमादि सर्वत्र कारणान्तरेणानुग्रहो दृश्यते । नोत्सर्गयोगात् । न च नित्यानि चातुर्मास्यानि । उत्सर्गेण हि तानि युज्यन्ते । यन्नाम नित्यं कथं तस्योत्सर्ग इति । स्यात्रिंशच्छन्द वत् । भवेद्वा नित्यत्वेऽप्युत्सर्गो यथा दर्शपूर्णमासयोस्तस्मात्रिंशतमेव वर्षाणि यजेतेति । अपि च नित्यमुच्यते यदवश्यं कर्तव्यम् । द्विप्रकारे कर्म नित्यं काम्यं च । तत्र नित्यं प्रकृत्य चिन्त्यते--किं सगुणमेव कर्तव्यमृत विगुणमपीति । गुणाम्नानात्सगुणमे- वेत्येवं प्राप्त आह विगुणे फलनिवृत्तिरङ्गप्रधानभेदात् । विगुणेऽपि नित्ये कर्मणि फलनिवृत्तिर्मवति । कुत एतत् । यतोऽङ्गानि प्रधानानि वा भिन्नानि । इह यावजीवं दर्शपूर्णमासाभ्यां यजेतेति दर्शपूर्णमासयोरेव कर्तव्यतोच्यते नाङ्गानामतश्च प्रधाने कृते यत्फलं तत्सिद्धं भवत्येव । धात्वर्थमात्रमेष कर्तव्यम् । न तेनान्यस्य कर्तव्यता । यन । । ख. कषां।