पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ सत्यापाढविरचितं श्रौतसूत्र- [ २ तृतीयमने-

जीर्णतायाश्चोर्ध्व दृश्यते । तेन कथं केषां नियतता कथं चानुष्ठानमिति न ज्ञायते । उच्यते-नियतता तु येषां फलं न चोद्यते सूत्रे तेषां नियतताऽऽधानप्रभृति सचिता। वसन्ते वसन्त इत्यत्र सोमेऽपि प्रयोगभेदेन सर्वकामा(मत्वा)न्नित्यस्य नियतता । अनु• पक्रान्तेष्वपि प्रतिनिधर्वक्ष्यमाणत्वादाधानादौ नियतेऽप्यङ्गप्रयोगकथनात्प्रायश्चित्तेन वैगुण्यपरिहारामिधानायथोपपन्नाजानुष्ठानेन नित्यसिद्धिरिष्टेति गम्यते । दर्शपूर्णमास- योर्यावज्जीवशब्देन स्पष्टीकृता । आधान विना न कस्याप्यारम्भरतस्यैव निःश्रेयसफ. लेषु प्रथमपरिगणनात् । आधानादग्निहोत्रं दर्शपूर्णमासौ सोमेज्या ब्राह्मणस्य नियता- नीति वदिष्यति । तत्राऽऽधानाकरण उपपातकं स्मृतौ तथाऽग्निहोत्रादिषु यस्य वेदश्च वेदिश्चेत्यादिना स्मृतिषु । य आ तृतीयात्पुरुषासोमं न पिवेदित्यादिश्रुतिष्वपि सर्वत्र प्रायश्चित्तविधानामुपालम्भान्नियततेति सूचितम् । यावज्जीवनादिनिमित्तान्यपि शास्त्रान्तराज्ज्ञेयानि । एतत्सर्वं कात्यायनेन सम्यग्विवृतम् । तथा हि-फलयुक्तानामा- रम्भे याथाकामी फलार्थित्वात् । फलार्थिनो हि कर्म चोद्यते । तस्माद्याथाकाम्य प्राप्तम् । न, नियमनिमित्ताग्निहोत्रदर्शपूर्णमासदाक्षायणाग्रयणपशुषु प्रवृत्तेः । नियमेषु न याथाकाम्यम् । यस्मानियोगतस्तत्र शास्त्रं प्रवर्तयति । सत्यवादी स्यादधःशायी स्यादिति च । पक्षे चैतन्नियमशास्त्रं प्रवृत्तम् । प्रागेव यस्माद्याथाकाम्यं प्राप्तं यदि नियोगतो नानुष्ठेयं सत्यवदनशासनमनर्थकमेव स्यात् । तस्मानियमेषु न याथाकाम्यम् । निमित्तेऽपि यद्विधीयते तत्रापि न याथाकाम्यं निमित्तोपदेशेन विधानागृहदाहेऽग्नये क्षामवते निर्वदिति । यदि सामवत्यादिषु याथाकाम्यं स्यातहदाहग्रहणमनर्थकमेव स्यात् । प्रागपि हि गेहदाहग्रहणाद्याथाकाम्यं सिद्धमेव । तस्मान्नैमित्तिकेऽपि न याथा- काम्यम् । अग्निहोत्रेऽपि न याथाकाम्यं यावज्जीवमग्निहोत्रं जुहुयादिति श्रूयते । ननु चाग्निहोत्रं जुहुयात्स्वर्गकाम इति तत्र प्रकरणादस्यैवेष कर्मणो धर्मस्ततश्च याथा- काम्यं भवति । नेत्युच्यते । प्रकरणादेष कर्मधर्मः स्याद्यावन्नीवता । तत्रापि लक्षणया कर्माभ्यासो लक्ष्यते । कर्तृधर्मे पुनर्जुहुयादिति स्वार्थ एव वर्तते नाभ्यास लक्षयति । जीवने निमित्त त्वज्ञातो होमो विधीयते । तस्मात्कर्तृधर्मों यावजीवकता । ततश्च तया याथाकाम्यम् । यत्पुनरुक्तमग्निहोत्रं जुहुयात्स्वर्गकाम इति स पृथक्काम्यप्रयोगः। अयमपरो जीवननिमित्त इति तत्रैतद्भवति कान्येऽपि प्रयोगे क्रियमाणे नैयमिकः कृत एव भवति । सोऽप्यग्निहोत्रप्रयोग एवेति । दर्शपूर्णमासादिष्वप्येवमेव द्रष्टव्यम् । तत्रापि हि काम्यचोदना यावजीवचोदना च । दाक्षायणग्रहणं काम्यसंबन्धाशङ्कया। आग्रयणेष्टयामपि शाखान्तरान्न याथाकाम्यम् । स्वशाखायामपि नवं प्रकृत्याऽऽमनन्ति- 'अनयोा अयं द्यावापृथिव्यों रसोऽस्य रसस्य हुत्वा देवेभ्योऽथ नवमन्नाति । इति] अशनस्य च नित्यकर्तव्यता । न च देवेम्यो हुत्वाऽसौ नित्य कर्तव्यता क्रियते । अतो नित्यता गम्यते । अपि च प्रायचित्तविधानमत्र भवति-अनिष्ट्वाऽऽययणेन नवस्या- -