पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० सत्याषाढविरचितं श्रौतसूत्र- [ ३तृतीयप्रो-

एवं प्राप्तेऽभिधीयते-

कर्मणाऽभ्युदयोऽकर्मण्यप्रत्यवायोऽनियतानां तु ।

ना पूर्वपक्षव्यावृत्तिः । अनियतानां कर्मणाऽनुष्ठानेन फलं भवति । येषामननु- छाने च न प्रत्यवायः श्रूयते । इष्टसाधनताज्ञानमात्रादिष्टं प्रतीयते | साध्ये तन्मात्रदो नैव प्रेक्षाकारी प्रवर्तते ॥ न च तत्र निमित्तेन प्रवृत्तिस्तस्य चाश्रुतेः । अतस्तान्यनियतत्वादोषाकारिण्यकणि || आवश्यक्यामसत्यां तु प्रवृत्तौ स्वष्टसाधनम् । बुबैव हि प्रवर्तेत संख्या वाऽत्रान्यया कचित् ॥ एवं प्रवृत्ति सिद्ध्यर्थ वाक्यार्थो यद्विशेषणम् । गृह्णदिष्टं न वाक्यस्य भेदं कुर्यात्तु कुत्रचित् ।। तस्मात्तेषामनुष्ठानाजायतेऽभ्युदयः फलम् । स्त्रीकामो वृणुयाद्दारानितिलौकिकवाक्यतः ॥ वरणेनैव दाराणां प्राप्तिरुक्तेति गम्यते । पूर्वप्रकारतो नैव संगतिः पदयोर्भवेत् ॥ आह च- स्वर्गकामो यजेतेति द्वे पदे चेद्विधायके । परस्परेण संबन्धो नानुवादेऽपि युज्यते ॥ अतोऽनूद्य पदेनैकेनापरेण विधीयते । यदि तत्रैव संबन्धस्ततो जायत नान्यथा ॥ अनूध यदि यागं तु स्वर्गकामो विधीयते । कामनायास्तथा यागाददृष्टं परिकल्पते ।। स्वर्गकाम त्वन्द्याथै यदि यागो विधीयते । तस्योपकारकत्वेन ततः स्वर्गस्य माध्यता ॥ प्रयत्नरूपो यागाऽयं निष्फलः स च नेष्यते । विधेयोऽपि हि साध्यस्य साधनत्वेन जायते ॥ स्वर्गः साध्या नान्यतरत्साध्यं किंचिदपीप्यते । प्रयत्नरूपो यागोऽपि तेन स्यात्तस्य साधनम् ।। उद्दिश्य स्वर्गकामं तु स्फुटे यागवियों सति । एकवाक्पगतः स्वर्गस्तेनैवेह असाध्यते ॥