पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१प्र० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २६९

तयस्ते साध्यसाधनत्वावेदका इत्यर्थः । यद्यत्र शब्दशब्देन श्रुतिविवक्ष्येत तदा पूर्वे- जैव सिद्धरेतदर्थे न सूत्रान्तरमारम्भणीयं स्यात् । न चोच्छिन्नश्रुतित्वाचाऽऽशङ्कायां सूत्रान्तरारम्भ इति वाच्यम् । दृष्टा श्रुतयस्तान्प्रति श्रोतलौकिककर्मविभागो न स्यात् । न च नित्यानुमेयश्चतिप्रतिपादनार्थमारम्भ इति वाच्यम् । वैदिकानां शब्दा- नामिति च विरुध्येत । न च नित्यानुमेया एव वेदाः केऽपि सन्तीति मतं गुरोर्मत- मिति वाच्यम् । गुरुगुरोर्न तथेति पूर्वतनं गुरुमतमेवेत्युपेक्षणीयमित्याचार्याभिप्रायः । उक्तं च पार्थसारथिमित्रैः- यद्यप्यनुमिताद्वेदालौकिकोऽपि तु वैदिकः । प्रत्यक्षवेदविरहान्नैवासौ सदृशो मतः ॥ ननु सोऽपि वेदः केषांचित्प्रत्यक्ष एव नित्यानुमेयमूळनिराकरणात् । सत्यं, तथाऽप्यसदृश एव । कथं, वैतानिककर्माधिकारे त्रयी प्रवर्तते । तन्मध्ये तु प्रसङ्गाद- वैतानिक किंचिदुच्यत इति नित्यसापेक्षत्वाद्देवदत्तस्य गुरुकुलमितिवत्स्मृतिग्रहणा- नीति समासः । एतेन श्रौतानि कर्माणि तानि न लौकिकैः शब्दैधायन्ते किं तु यथा- पठितः कठिनैरपि धार्यन्त इत्युक्तमर्थात्तदेव पूर्वसूत्र एवं व्याख्यातम् । एतदेवोपजीव्य वे विधानत्रयमुक्तमस्माभिर्व्याख्यातं ज्ञेयम् । ननु श्रुत्यैव सर्वत्र फलमिष्टं हि लभ्यते । तस्य वाक्योदितं तत्तु न विवक्ष्यं विशेषणम् ॥ उद्देश्यस्य च पूर्वेण निराकाङ्क्षस्य यद्यदः । विशेषणं विवक्ष्येत भवेद्वाक्यभिदुद्धता || न साध्यत्वप्रतीतिस्तु जायते तैः पदैः क्वचित् । स्वर्गकामादिकैः सर्वैः श्रौतसाध्याविशेषकैः ।। विशिष्टशिष्टमप्यर्थमाचष्टे तत्पदं न हि । कर्तुविशेषणत्वेन प्रथमान्त फलान्वयि ॥ ग्रामकामाऽऽगच्छ भुक्ष्य चैवं स्यादुपलक्षणम् । भथवा भूतभव्यानामेकत्राप्यन्वये सति ॥ भूतं भव्यायोपदेश्यमिति न्यायाणे विधिः । स्वर्गस्य सुखरूपस्य साधनैश्चन्दनादिमिः ॥ यागो हि साध्यता तस्मात्सर्वकर्मफलं स्थितम् । निःश्रेयस चैकमेव नान्यत्फलमसंगतेः॥ १क. योगो।