पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०६
[अक्षरस्वीकारप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पूजयित्वा हरिं लक्ष्मीं देवीं चैव सरस्वतीम् ।
स्वविद्यासूत्रकारांश्च स्वविद्यां च विशेषतः ॥
एतेषामेव देवानां नाम्ना तु जुहुयाद्घृतम् ।
दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं चात्र पूजनम् ॥
प्राङ्मुखो गुरुरासीत वारुण्यभिमुखं शिशुम् ।
अध्यापयेत्तु प्रथमं द्विजातिभिः सुपूजितः" इति ॥

 अनेन गुरुपूजनमपि कर्तव्यमिति सूचितम् ।

 सरस्वतीपूजनादिप्रकारमाह पारिजाते गर्गः--

"स्नात्वा शुचौ समे देशे गोचर्ममात्रमुपलिप्य सैकतं स्थण्डिलं[१] कृत्वा पलाशशाखया मृदं खनित्वा तत्र सरस्वतीमावाहयेत्–- भुवनमानः सर्ववाङ्मयरूपे, आगच्छाऽऽगच्छेति । ततः प्रणवेनाऽऽसनार्घ्यपाद्याचमनीयस्नानवस्त्रगन्धपुष्पाक्षतधूपदीपपायसगुडौदननैवेद्यसमर्पणनमस्कारान्कृत्वा विघ्नेशं संपूज्याऽऽचार्यं शक्तितो वस्त्रालंकारादिभिः पूजयित्वा सरस्वतीविघ्नेशाचार्यांस्त्रिः प्रदक्षिणीकृत्य प्रणवपूर्वकमक्षरमारभेत्(त) । तत आचार्यादिवन्दनं कृत्वा सरस्वत्यादीनावाहनक्रमेणोद्वासयेद्विद्यावृद्धिर्भवति" इति ।

विष्णुधर्मोत्तरे--

"ब्राह्मणानां गुरूणां च देवतानामनन्तरम् ।
ततः संपूज्य वित्तेन धात्रीं राम गुरुं तथा" इति ॥

 गुरूणां पित्रादीनाम् । धात्री माता । गुरुराचार्यः । रामेति श्रोतृसंबोधनम् ।

इत्यक्षरस्वीकारः ।

अथ प्रयोगः ।

 कुमारमभ्यङ्गस्नानपूर्वकं स्नापयित्वा गन्धादिभिरलंकृत्य यथोक्ते मुहूर्त आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यामुकशर्मणः पुत्रस्याक्षरारम्भार्थं मार्कण्डेयगर्गाद्युक्तविधिं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं विधाय पुनः कुमारेण सह स्नात्वा शुचौ समे देशे गोचर्ममात्रं यथापर्याप्तं वा स्थलं गोमयेनोपलिप्य सैकतं स्थण्डिलं तत्र कृत्वा पलाशशाखामूलेन स्थण्डिलमध्ये मृदं खनित्वा पलाशशाखां तत्रैव रोपयित्वा तत्र सरस्वतीमावाहयेत् 'ॐ भुवनमातः सर्ववाङ्मयरूपे, आगच्छाऽऽगच्छ' इति मन्त्रेण । ततः प्रणवेनाऽऽसनार्घ्यादिनमस्कारान्तानुपचारान्दद्यात् । अत्र


  1. ख. लं तत्र कृ ।