पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अक्षरस्वीकारः]
९०५
संस्काररत्नमाला ।

 जनार्दनस्वापकालो विष्णुधर्मोत्तरे--

"आषाढशुक्लद्वादश्यां शयनं कुरुते हरिः ।
निद्रां त्यजति कार्तिक्यां तयोः संपूज्यते हरिः" इति ॥

 नृसिंहः--

"अक्षरस्वीकृतिः प्रोक्ता प्राप्ते पञ्चमहायने ।
उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ॥
शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना" इति ॥

बृहस्पतिः--

"विद्यारम्भो व्रतोद्देशः क्षीरं चैव विशेषतः ।
गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितम्" इति ॥

 गलग्रहास्तूपनयनप्रकरण उक्ताः । गलग्रहान्तर्गतायास्त्रयोदश्याः प्रतिप्रसवमाह देवरातः--"त्रयोदश्यक्षरे श्रेष्ठा" इति ।

 मार्कण्डेयः--

"वारे दिनेशभृगुसुज्ञबृहस्पतीनां विद्वानसौ भवति यो हि विमूढबुद्धिः । चन्द्रे च चन्द्रतनये च कृशे च सर्वं(र्व) विघ्नो
भवेदवनिजे रविजे विनाशम्(शः)" इति ।

वसिष्ठश्चाह---

"दिवसांशोदया वर्ज्या यत्नेन कुजसौरयोः ।
श्रेष्ठा[:] सितज्ञजीवानां मध्यमाश्चन्द्रसूर्ययोः ॥
रविवारे तु पूर्वाह्णे विद्यारम्भो विधीयते ।
चन्द्रवारेऽपराह्णे तु विद्या गुर्वी विधीयते ॥
रात्रौ विवर्जयेन्नित्यं संध्ययोश्च विशेषतः" इति ॥

 सुज्ञो बुधः।

 महेश्वरः--

"हस्तादित्रितये तथा निर्ऋतिभे पूर्वान्त्यभे चाश्विभे
मित्रर्क्षे च मृगादिपञ्चसु शुभः प्रारम्भ आद्यः स्मृतः ।
विद्यानां हरिभत्रये च दिवसे सूरेर्भृगोर्वा दिनेऽ-
नध्यायाख्यतदाद्यवर्जिततिथौ केन्द्रस्थितैः सद्ग्रहैः" इति ॥

राजमार्तण्डः--

"विद्यारम्भः प्रशस्तो भवति मधुरिपौ प्राप्तबोधे शशाङ्के
शस्ते तीक्ष्णद्युतौ च त्रिदशपतिगुरावुद्गते चाथ शुक्रे ।
स्वाध्याये सिंहसंस्थं खरकिरणयुतं देवपूज्यं विहाय
शुक्रादित्येज्यवारे त्रिदशपतिगुरौ केन्द्रसंस्थे न पापे" इति ॥

 अक्षरारम्भप्रकारस्तु माधवीये मार्कण्डेयेनोक्तः--

"अभ्यङ्गस्नानपूर्वं तु गन्धवस्त्रादिभूषितः ।
शलाकया सुवर्णस्य पञ्चाशद्वर्णकाल्लिँखेत् ॥


११४