पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०४
[अक्षरस्वीकारः]
भट्टगोपीनाथदीक्षितविरचिता--

'स्त्रीशूद्रौ तु शिखां छित्त्वा क्रोधाद्वैराग्यतोऽपि वा । प्राजापत्यं प्रकुर्वीताम्' इतिप्रायश्चित्तविधिबलात् । एतत्परिग्रहपक्षे । अत्र देशभेदाद्व्यवस्था द्रष्टव्या । स्त्रीणां केशधारणमेव शिखाधारणम् । एतच्चामन्त्रकमेव स्त्रीणां कार्यम् । 'तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः' इतिवचनात् । होमोऽपि न । 'स्त्रीणामहोमकास्तु स्युर्विवाहस्तु समन्त्रकः' इति गोभिलोक्तेः ॥

इति संस्काररत्नमालायां चूडाकरणप्रयोगः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायाः सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालायां उत्तरार्धे
तृतीयं प्रकरणम् ॥ ३ ॥

अथ चतुर्थं प्रकरणम् ।

अथाक्षरस्वीकारः ।

 तत्र कालादि श्रीधरीये--

"उदग्गते भास्वति पञ्चमेऽब्दे प्राप्तेऽक्षरस्वीकरणं शिशूनाम् ।
सरस्वतीं विघ्नविनायकं च गुडौदनाद्यैरभिपूज्य कुर्यात्" इति ॥

 शिशुभिः पञ्चमे वर्षे प्राप्ते उदगयनेऽक्षरस्वीकरणं कर्तव्यमित्यर्थः ।

विधिरत्नेऽपि--

"बालस्य पञ्चमे वर्षे प्राप्ते भानौ मृगादिगे ।
आरभेताक्षरविधिं शुभे काले यथोदि[१]ते" इति ॥

 बृहस्पतिः-- "द्वितीयजन्मनः पूर्वमारभेताक्षरान्सुधीः" इति ।

 द्वितीयं जन्म मौञ्जीबन्धनम् ।

"मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः" इति याज्ञवल्क्योक्तेः ।

 वि[२]श्वामित्रेण विशेष उक्तः--

"प्राप्ते च पञ्चमे वर्षे त्वप्रसुप्ते जनार्दने ।
विद्यारम्भस्तु कर्तव्यो यथोक्ततिथिवासरे" इति ॥



  1. ङ. च. दितम् इ ।
  2. क. ख. विश्वामित्रीये ।