पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[चूडाकर्मप्रयोगः]
९०३
संस्काररत्नमाला ।

चारिणं वोपवेश्याऽऽसादिता अत्युष्णा अप आसादितासु शीतासु मिश्रयित्वा ता आदाय, आप उन्दन्त्वित्यस्य सोम आपो द्विपदा गायत्री यजुर्वा । गोदानोन्दने विनियोगः । 'ॐ आप उन्दन्तु० वर्चसे' इति ताभिर्दक्षिणं गोदानमुनत्ति । आर्द्री करोतीत्यर्थः । गवि पृथिव्यां दीयते स्वापार्थमङ्गं गोदानं, तानि मनुष्ये चत्वारि । ओषध इत्यस्य सोम ओषधयो यजुः । कुशनिधाने विनियोगः । 'ॐ ओषधे त्रायस्वैनम्' [ इति ] आसादितेष्वेकं कुशमूर्ध्वाग्रं तत्र निदधाति । स्वधित इत्यस्य सोमः क्षुरो यजुः । क्षुरनिधाने विनियोगः । 'ॐ स्वधिते मैन हि सीः' [ इति ] तत्राऽऽसादितं क्षुरं निदधाति । देवश्रूरित्यस्य सोमो देवश्रूर्यजुः । वपने विनियोगः । 'ॐ देवश्रूरेतानि प्रवपे' इत्योषधिना सह दक्षिणप्रदेशस्थान्केशान्वपति । एवमवशिष्टगोदानत्रयेऽपि । तत्र वपनमन्त्रेषु विशेषः । येनावपदित्यस्य सोमो वप्तारस्त्रिष्टुप् । वपने विनियोगः । 'ॐ येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योर्जे मरय्या वर्चसा स सृजाथ' इति पश्चिमप्रदेशस्थकेशवपने मन्त्रः । 'ॐ येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चाऽऽयुषेऽवपत् । तेन तेऽहं वपाम्यमुकशर्मन्' इत्युत्तरप्रदेशस्थकेशवपने । अत्र संस्कार्यस्य नाम ग्राह्यम् । 'ॐ यथा ज्योक्च सुमना असत् । ज्योक्च सूर्यं दृशे' इति पूर्वप्रदेशस्थकेशवपने । अत्र सहायभूता अन्येऽपि वप्तारः । ब्रह्माणो वपतेति बहुवचनलिङ्गात् । एवं च कारयन्तीत्यत्रत्यप्रयोजककर्तृगतं बहुवचनमप्युपपद्यते ।

 ततो वपनानन्तरं नापितेन यथाकुलधर्मं यथाप्रवरं वा चूडाः कारयेयुर्वपनकर्तारः । नापितस्तदनुसारेण चूडाः कुर्यात् । एका चेन्मध्ये । द्वे चेन्मध्ये पुरस्ताच्च । तिस्रश्चेत्पश्चान्मध्ये पुरस्ताच्च दक्षिणतो मध्य उत्तर इत्येवं वा । पञ्च चेत्प्रतिदिशं मध्ये च । केचन भृगवः सशिखाः । केचन मुण्डा एव ।

 ततः कुमारस्य यः कश्चन बन्धुजनस्तस्मिञ्छकृत्पिण्डे तान्केशानन्तर्भूतान्कृत्वा 'ॐ यत्र पूषा बृहस्पतिः सविता सोमो अग्निः । तेभ्यो निधानं बहुधा व्यैच्छन्नन्तरा द्यावापृथिवी अपः सुवः' इति गोष्ठ उदुम्बरे दर्भस्तम्बे वा निखनति । अवटं खात्वा तस्मिन्सकेशं शकृत्पिण्डं प्रक्षिप्य मृदा प्रच्छादयतीत्यर्थः ।

 ततः कृतशुद्धस्नानः कुमार आचार्यादीन्प्रणमेत् । तत आचार्यो ब्राह्मणेभ्यः पुण्याहवाचकेभ्योऽन्येभ्यश्च दक्षिणां दद्यात् । सूत्र एकवचनं जातौ ।

 ततः सर्पिष्प्रचुरमोदनं नापिताय ददाति । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च कृत्वा विप्राशिषो गृहीत्वा विष्णुं संस्मरेत् । एतच्च स्त्रीणामपि ।