पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९००
[चूडाकर्म]
भट्टगोपीनाथदीक्षितविरचिता--

 अत्रिः--

"अब्दायनर्तुमासान्ते वर्षान्ते च दिनक्षये ।
कृष्णपक्षे गते क्षौरे तस्याऽऽरोग्यं न विद्यते" इति ॥

ज्योतिर्नारदः--

"सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् ।
पञ्चाब्दात्प्रागथोर्ध्वं तु गर्भिण्यामपि कारयेत् ॥
सहोपनीत्या कुर्याच्चेत्तदा दोषो न विद्यते" इति ॥

 अत एव कैश्चिदुदाहृतस्य सूनोर्मातरि गर्भिण्यां मौञ्जीचूडे न कारयेदित्यस्य वचसः समूलत्वेऽपि प्रत्येकमेव निषेधो न सहितयोरिति द्रष्टव्यम् । पञ्चाब्दानि पूर्यन्ते यस्मिन्दिने तत्पञ्चाब्दम् । अथोर्ध्वं पञ्चाब्दादूर्ध्वम् । अत्र सहशब्देन चौलोपनयनयोरव्यवधानं दर्शितं भवति ।

 प्रकारान्तरेण निषेधापवादमाह वसिष्ठः--

"गर्भे मातुः कुमारस्य न कुर्याच्चौलकर्म तु ।
पञ्चमासादधः कुर्यादत ऊर्ध्वं न कारयेत्" इति ॥

 पञ्च मासा गर्भसंबन्धिनः पूर्यन्ते यस्मिन्दिने तत्पञ्चमासम् । 'सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत्' इत्यस्मिन्विषये 'पञ्चमासादधः कुर्यात्' इत्ययं प्रतिप्रसवः । 'अत ऊर्ध्वं न कारयेत्' इति वसिष्ठवचनबोधितनिषेधविषये 'अथोर्ध्वं तु गर्भिण्यामपि कारयेत्' इति नारदवचनबोधितोऽयं प्रतिप्रसवः । सूनोर्मातरीत्यस्मिन्वाक्ये माता साक्षान्मातैव ग्राह्या । न तु सापत्नमाता ।

"गर्भिण्यामपि भार्यायां सूनोश्चौलं न कारयेत् ।
भिन्नभार्यासुतस्येह न दोषश्चौलकर्मणि" ॥

 इति प्रयोगदर्पणे स्मृत्यन्तरवचनात् ।

स्मृतिरत्नाकरे स्मृत्यन्तरे--

"सूनोः सापत्नमाता चेद्भवेद्गर्भवती तदा ।
चौलोपनयने कुर्यादित्याहुः पूर्वसूरयः" इति ।

 मातरि रजस्वलायां वृद्धगार्ग्यः--

"विवाहव्रतचूडासु माता यदि रजस्वला ।
तस्याः शुद्धेः परं कार्यं माङ्गल्यं मनुरब्रवीत्" इति ॥

 परमनन्तरम् । यदा चौलादिप्रारम्भोत्तरं रजःप्रारम्भात्प्रागपि रजसि सर्वथा मुहूर्तान्तराभावो वा तदा शान्तिं कृत्वा कार्यमित्युक्तं विवाहप्रकरणे तदत्रापि ज्ञेयम् ।

कात्यायनः--

"कुले ऋतुत्रयादर्वाङ्मण्डनान्न तु मुण्डनम् ।
प्रवेशान्निर्गमो नेष्टो न कुर्यान्मङ्गलत्रयम्" इति ॥