पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९८
[चूडाकर्म]
भट्टगोपीनाथदीक्षितविरचिता--

 चैत्रमासस्यात्र वर्ज्यत्वमुक्तं देवरातेन--

"चैत्रमासं वर्जयित्वा चौलं स्यादुत्तरायणे" इति ।

यमः--

"ततः संवत्सरेऽपूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा चूडाकर्म विधीयते" इति ॥

 अपूर्ण इति च्छेदः । अयं च प्रथमद्वितीयसंवत्सरविधिः शाखान्तरपर एव । न सत्याषाढसूत्रानुसारिपरः । आचार्यविहिततृतीयवर्षात्मकचौलकालतः पूर्वतनकालग्रहणस्यायुक्तत्वात् ।

 बृहस्पतिः--

"तृतीयेऽब्दे शिशोर्गर्भाज्जन्मतो वा विशेषतः ।
पञ्चमे सप्तमे वाऽपि स्त्रियाः पुंसोऽथ वा समम्" इति ॥

 अत्र तृतीयादि विषमं स्त्रीपुंसयोरुभयोरपि मुख्यम् । चतुर्थादि समं त्वनुकल्पः । तत्रापि जन्मतस्तृतीयादि मुख्यं गर्भतस्त्वमुख्यं, तेन गर्भाष्टमेऽष्टमे वाऽब्द इतिवन्न तुल्यविकल्पः । अत एव नारदः--

"जन्मतस्तु तृतीये चेच्छ्रेष्ठमिच्छन्ति पण्डिताः ।
पञ्चमे सप्तमे वर्षे जन्मतो मध्यमं भवेत् ॥
अधमं गर्भतः स्यात्तु दशमैकादशेऽपि वा[१]" इति ॥

 केनचित्प्रतिबन्धेन चौलोपनयने दशमवर्षपर्यन्तमेकादशवर्षपर्यन्तं वा न जाते तत्र दशमैकादशेऽपि[२] वेत्येतस्य संभवो ज्ञेयः । गर्भतस्तृतीये पञ्चमे सप्तमे वा वर्षे चौलमधमं भवेदित्यधमं गर्भतः स्यादित्येतस्यार्थः ।

 वृत्तशते--

"न जन्मधिष्ण्ये न च जन्ममासे न जन्मकालीयदिने विदध्यात् ।
न ज्येष्ठमासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि" इति ॥

चण्डेश्वरः--

"मार्गे मासि तथा ज्येष्ठे क्षौरं परिणयं व्रतम् ।
ज्येष्ठपुत्रदुहित्रोस्तु यत्नेन परिवर्जयेत् ॥
कृत्तिकास्थं रविं त्यक्त्वा ज्येष्ठपुत्रस्य कारयेत् ।
उत्सवादिषु कार्येषु दिनानि दश वर्जयेत्" इति ॥

 क्षौरं चौलम् । परिणयो विवाहः । व्रतमुपनयनम् । धर्मप्रकाशे नारदः--

"द्वित्रिपञ्चमसप्तम्यामेकादश्यां तथैव च ।
दशम्यां च त्रयोदश्यां कार्यं चौलं विजानता ॥
पक्षच्छिद्राश्च नवमीमाद्यां पञ्चदशीं तथा ॥
हित्वा तु तिथयः सर्वाः प्रशस्ताश्चौलकर्मणि" इति ॥


  1. ङ. च. च ।
  2. ङ. च. पि. चेत्ये ।