संकटवशेन शक्ताशक्तपरतया वा व्यवस्था यथायथं बोध्या ।) तीर्थं तीर्थयात्रा । श्राद्धं श्राद्धभोजनमिति केचित् । पित्रोः क्षयाहश्राद्धादिकं तु सप्तममासादूर्ध्वमपि भवति ।
"पित्रोः क्षयाहं दर्शं च गयाश्राद्धं महालयम् । |
एतच्च नित्यानां युगादिश्राद्धानामुपलक्षणम् । पिण्डयज्ञोऽपि भवत्येव । नित्यत्वात् । मुण्डनं पिण्डदानं चेत्युदाहृतदक्षवाक्ये पिण्डदानशब्देन श्राद्धमुपलक्ष्यत इति मते श्राद्धस्यैव निषेधप्राप्तौ पित्रोः क्षयाहमिति सत्यव्रतवाक्येन नित्यश्राद्धानां प्रतिप्रसवः क्रियते । पिण्डदानशब्देन पिण्डदानमेव निषिध्यत इति मते पित्रोः क्षयाहादिश्राद्धेष्वपि पिण्डदाननिषेधः ।
( [१]न च--"पिण्डनिर्वपणं कार्यं तस्यामपि नृसत्तम"। |
इत्यान्वष्टक्यविषय एव गर्भिणीपतित्वप्रयुक्तो यः पिण्डदाननिषेधः प्राप्तः स नास्ति, इति निबन्धकारलेखनादान्वष्टक्यव्यतिरिक्तसांवत्सरिकादिस्थले कथं पिण्डदानप्राप्तिरिति वाच्यम् । अपिशब्देन सांवत्सरिकादीनामपि संगृहीतत्वेन तत्रापि तत्प्राप्तिसंभवात् । न चापिशब्दस्य पिण्डनिर्वपणशब्देऽन्वयात्कथमेतदिति वाच्यम् । संनिहितपदान्वयसंभवे व्यवहितान्वयकल्पनस्यानुचितत्त्वात्सांवत्सरिकादिषु गर्भिणीपतिकर्तृकपिण्डदानाचारस्य बहुशो दृष्टत्वाच्च, इति केचित् । वस्तुतस्तु--एतन्मतेऽपि क्षयाहादिश्राद्धेष्वपि पिण्डनिषेधो नैवास्ति ।)
"श्राद्धं च सप्तमान्मासादूर्ध्वं नैव समाचरेत्" | |
इत्याश्वलायनवचनस्थश्राद्धशब्दः श्राद्धभोजनपर इति मते श्राद्धकरणस्यैतस्मादेव वचनात्प्राप्तत्वात्पित्रोः क्षयाहमितिवचनं सपिण्डकत्वविधानार्थं द्रष्टव्यम् । यथाचारं व्यवस्था । इति गर्भिणीपतिधर्माः ।
अथ गर्भवृद्ध्युपायः ।
"वरी विश्वा च गन्धा च मधुकं भृङ्गराट्समम् । |
वरी शतावरी । विश्वा शुण्ठी । गन्धाऽश्वगन्धा । भाषया 'आस्कन्द' इत्युच्यते । मधुकं ज्येष्ठमधु । भृङ्गराट्, भाषया 'माका' इति ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तक एव ।