पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९०
[भूम्युपवेशनम्]
भट्टगोपीनाथदीक्षितविरचिता--
'ॐ स्वस्ति न इन्द्रो वृद्ध० बृहस्पतिर्दधातु स्वाहा' इन्द्राय वृद्धश्रवसे पूष्णे विश्ववेदसे तार्क्ष्यारिष्टनेमये बृहस्पतये चेदं न मम । 'ॐ स्वस्ति पन्था० संगमेमहि स्वाहा' देवेभ्य इदं न मम । 'ॐ स्वस्त्ययनं तार्क्ष्य० मिवाऽऽरुहेम स्वाहा' तार्क्ष्यायारिष्टनेमय इदं न मम । 'ॐ अंहोमुच० अस्तु स्वाहा' अंहोमुच आङ्गिरसाय स्वस्त्यात्रेयाय तार्क्ष्याय चेदं न मम । इत्यष्टावाज्याहुतीर्हुत्वाऽङ्गहोमादि स्विष्टकृदादि वा [१]पूर्वान्तानुसारेण कर्मशेषं समापयेत् ।

 ततो ब्राह्मणाय धेनुं दत्त्वाऽग्निं संपूज्य दिगीशपूजनादि पूर्ववत्कुर्यात् ।

इति निष्क्रमणम् ।

अथ भूम्युपवेशनम् ।

पद्मपुराणे--

"पञ्चमे तु तथा मासे भूमौ तमुपवेशयेत् ।
अत्र सर्वे ग्रहाः श्रेष्ठा भौमो राम विशेषतः ।।
तिथिं विवर्जयेद्रिक्तां शस्तानि शृणु भानि मे ।

 रामेति श्रोतृसंबोधनम् । म इत्यनन्तरं गदत इति शेषः । म इत्यत्रापादानस्य शेषत्वविवक्षायां पष्ठी ।

उत्तरात्रितयं सौम्यं पुष्यर्क्षं शक्रदैवतम् ॥
प्राजापत्यं च हस्ताख्यं शस्तमाश्विनमित्रभे" इति ।

 सौम्यं मृगः । शक्रदैवतं ज्येष्ठा । वह्निदैवतमिति पाठे कृत्तिकाः । प्राजापत्यं रोहिणी । आश्विनमश्विनीनक्षत्रम् । मित्रभमनूराधानक्षत्रम् ।

मुहूर्तसंग्रहे--

"शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना ।
रिक्तास्तिथीर्वर्जयित्वा शिष्टाः स्युर्भूमिवेशने" इति ॥

तत्रैव--

"वराहं पूजयेद्देवं पृथिवीं च तथा द्विजः ।
पूजनं पूर्ववत्कृत्वा गुरुदेवद्विजन्मनाम् ॥
भूभागमुपलिप्याथ कृत्वा तत्र तु मण्डलम् ।
शङ्खपुण्याहशब्देन तं तत्रैवोपवेशयेत् ॥

 तं बालम् । तत्रैव मण्डल एव ।

 रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयुष्प्रमाणं निखिलं निक्षिपस्व हरिप्रिये ॥ अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः ।

जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥


  1. पूर्वोक्तानुसारेणेति क पुस्तकशोधितः पाठः ।