पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सूर्याद्यवलोकननिष्क्रमणप्रयोगः]
८८९
संस्काररत्नमाला ।

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ॐ सुवः ॐ भुवः ॐ भूः ॐ सः ॐ जूं ॐ हौं[१] ॐ' इत्येवंरूपं मृतसंजीवनमन्त्रं पठन्विभूत्याऽक्षतैर्वा मूर्ध्नि ललाटे च रक्षां कुर्यात् ।।

 ततो भूतेशानगणेशयोः पूजनं कृत्वाऽपूपाद्युपहारान्समर्प्य शिशुं भक्ष्यादिभिस्तोषयित्वा विप्राशिषो गृहीत्वा देवं प्रणम्य प्रदक्षि[२]णं च शिशुना सहितः कृत्वा देवतायतनं प्रदक्षिणं परीत्य स्वगृहमागच्छेत् । अथवा मातुलादिगृहं प्रत्यादौ नीत्वा स्वगृहं प्रत्यानयेत् ।

 ततो ब्राह्मणेभ्यो दक्षिणां दत्त्वा संभोज्य भूयसीं दक्षिणां दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

अथ बौधायनसूत्रोक्तहोमसहितः प्रयोगः ।

 संकल्पप्रभृति नान्दीश्राद्धान्तं कृ[३]त्वोद्धननादिविधिनाऽग्न्यायतनसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा निष्क्रमणहोमकर्मणि या यक्ष्यमाणा देवतास्ताः परिग्रहीष्यामीत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे--अश्विनौ भगं देवीमदितिं पूषणं द्यावापृथिव्यौ चाऽऽज्येन, वायुं सोमं भुवनस्य पतिं बृहस्पतिं सर्वगणमादित्यांश्चाऽऽज्येन, विश्वान्देवान्वैश्वानरं वसुमग्निमृभून्देवान्रुद्रं चाऽऽज्येन । उदकस्पर्शः । मित्रावरुणौ पथ्यां रेवतीमदितिं चाऽऽज्येन । इन्द्रं वृद्धश्रवसं पुषणं विश्ववेदसं तार्क्ष्यमरिष्टनेमिं बृहस्पतिं चाऽऽज्येन । देवानाज्येन । तार्क्ष्यमरिष्टनेमिमाज्येन । अंहोमुचमाङ्गिरसं स्वस्त्यात्रेयं तार्क्ष्यं चाऽऽज्येन यक्ष्य इत्युक्त्वा प्रसाधनीदेव्यन्तत्वपक्षे--अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यादि, व्याहृत्यन्तत्वपक्षेऽङ्गहोमे वरुणं द्विरित्याद्युक्त्वाऽन्वाधानसमिदभ्याधानादिप्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कृत्वा प्रधानहोमं कुर्यात् । 'ॐ स्वस्ति नो मिमीतामश्विना० सुचेतुना स्वाहा' अश्विभ्यां भगाय देव्या अदित्यै पूष्णे द्यावापृथिवीभ्यां चेदं न मम । 'ॐ स्वस्तये वायुमु० भवन्तु नः स्वाहा' वायवे सोमाय भुवनस्य पतये सर्वगणायाऽऽदित्येभ्यश्चेदं न मम । 'ॐ विश्वे देवा नो पात्वंहसः स्वाहा' विश्वेभ्यो देवेभ्यो वैश्वानराय वसवेऽग्नय ऋतुभ्यो देवेभ्यो रुद्राय चेदं न मम । उदकस्पर्शः । 'ॐ स्वस्ति मित्रावरुणा० स्वाहा' मित्रावरुणाभ्यां पथ्यायै रेवत्या अदितये चेदं न मम ।


११२
 
  1. ण. ह्वौ
  2. ङ. च. क्षिणां च ।
  3. ङ. च कृत्या गोमयोपलेपनोल्लेखना ।