पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१८
[गर्भिणीपतिधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

 स्मृत्यन्तरे--

"गर्भिण्यामपि भार्यायां विवाहेऽप्यथवा व्रते ।
सपिताऽपि वपेत्केशान्गौतम्यां सिंहगे गुरौ" इति ॥

 विवाह इत्यत्र निवृत्तेऽपीति शेषः । एवं व्रत इत्यत्रापि । गौतम्यामिति गौतम्यसंनिहितदेशनिवृत्त्यर्थम् । सिंहगे गुराविति तीर्थयात्रान्तरोपलक्षणम् ।

"विवाहे व्रतबन्धे च गर्भिणीपतिरेव च ।
मुण्डनं सर्वतीर्थेषु कुर्यादेवाविचारयन्" ॥

 इति स्मृतिदर्पणधृतसंग्रहवचनसंवादात् ।

स्मृत्यन्तरे--

"सिन्धुस्नानं द्रुमच्छेदं वपनं प्रेतवाहनम् ।
विदेशगमनं चैव न कुर्याद्गर्भिणीपतिः" इति ॥

 प्रेतवाहनमित्यनेन प्रेतविधानमप्युपलक्ष्यते । ज्योतिर्निबन्धे गालवः--

"प्रव्यक्तगर्भापतिरब्धियानं मृतस्य वाहं क्षुरकर्म सङ्गम् ।
तथैव यत्नेन गयादितीर्थं यागादिकं वास्तुविधिं न कुर्यात्" इति ॥

 आदिशब्देन व्रतोद्यापनादीति शुद्धिदर्पणे ॥

दक्षः--

"मुण्डनं पिण्डदानं च प्रेतकर्म तथैव च ।
न जीवत्पितृकः कुर्याद्गर्भिणीपतिरेव च" इति ॥

 पिण्डदानशब्देन श्राद्धमुपलक्ष्यत इति केचित् ।

 वपनप्रेतविधानापवादस्तत्रैव--

"क्षौरं नैमित्तिकं कुर्यान्निषेधे सत्यपि ध्रुवम् ।
पित्रोः प्रेतविधानं च गर्भिणीपतिरेव च" इति ॥

 एते च नियमाः सप्तममासादूर्ध्वं भवन्ति ।

"वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणीपतिः ।
श्राद्धं च सप्तमान्मासादूर्ध्वं नैव समाचरेत्" इत्याश्वलायनोक्तेः ।

 अत्र केचित्--सप्तममासोत्तरं यो वपनादिनिषेधः स दोषातिशयार्थः । तेन तत्पूर्वमपि शक्तौ सत्यां वपनादिनिषेधपरिपालनमस्त्येवेत्याहुः । ( [१]ऊर्ध्वं नैव समाचरेदितिवचनात्सप्तममासात्पूर्वं कदाचिद्वपनादिकरणमस्तीति गम्यते ।

 दक्षः--

"मासषट्के व्यतीते तु न कुर्यान्मौञ्जिबन्धनम् ।
अग्न्याधानं गयाश्राद्धं वपनं च विवर्जयेत्" इति ॥

संस्कारदर्पणे सत्यव्रतः--

ऋतुत्रये व्यतीते तु न कुर्यान्मौञ्जिबन्धनम् ।
अग्न्याधानं गयाश्राद्धं वपनं च विवर्जयेत्" इति ॥


  1. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तक एव ।