पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[निष्क्रमणम्]
८८७
संस्काररत्नमाला ।

प्रोष्ठपदर्क्षतः । आदित्यं पुनर्व[१]सू । अलिर्वृश्चिकः । अधोमुखानि मूलाश्लेषामिश्रोग्राणि । सतां शुभग्रहाणाम् ।

विधिरत्ने--

"दिक्पालचन्द्रसूर्याणां दिशां चैव यथाक्रमम् ।
विधाय पूजनं विप्रान्संभोज्य तदनन्तरम् ॥
शिशोः संरक्षणार्थं तु देवान्संप्रार्थयेत्ततः ।
गृहीत्वा भूषितं बालं बाह्यदेवालयं व्रजेत् ॥
ततः संपूज्य तं देवं रक्षां कुर्याच्छिशोस्ततः ।
भूतेशानं गणेशं च पूजयित्वा प्रतर्पयेत् ॥
देवं प्रदक्षिणीकृत्य प्रणम्य गृहमाव्रजेत्" इति ।

 निष्क्रमणसमये मङ्गलदर्शनं[२] कारणीयम् ।

"द्विजांश्चाऽऽदर्शपूर्वाणि मङ्गलानि पुरो नयेत्" इतिवचनात् ।

 द्विजानादर्शपूर्वाणि मङ्गलानि च पुरो नयेदित्यन्वयः ।

 तानि च विधिरत्न एवोक्तानि--

"दर्पणः कलशः कन्या तथा सुमनसोऽक्षताः ॥
दीपमाला ध्वजो लाजाः संप्रोक्तं मङ्गलाष्टकम् ॥
विवाहे निष्क्रमे कार्ये वृद्धौ पूर्ते समागमे ।
उत्सवेषु च यात्रायां प्रशस्तं मङ्गलाष्टकम्" इति ॥

 समागमे सुहृद्राजादीनां परस्परं समागमे ।

 बौधायनेनात्र सहोमः प्रयोग उक्तः--

"चतुर्थे मास्युपनिष्क्रमणं ब्राह्मणानन्नेन परिविष्य पुण्याह स्वस्त्यृद्धिमिति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा स्वस्त्यात्रेयं जुहोति स्वस्ति नो मिमीता० स्वस्ति संबाधेष्वभयं नो अस्तु स्वस्ति न इन्द्रो० बृहस्पतिर्दधात्वित्यष्टाभिरनुच्छन्दसं स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानादथोपनिष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृताऽन्नेन ब्राह्मणान्संपूज्याऽऽशिषो वाचयित्वा प्रदक्षिणीकृत्य स्वान्गृहानानयन्ति" इति ।

 ग्रामाद्बहिःस्थापितानि बाह्यानि । चित्रियाणि देवताः । त्रिवृता त्रिप्रकारेण । स्वान्गृहानानयन्तीति बहुवचनेन सर्वैः संबन्धिभिः स्वस्वगृहे शिशोर्नयनं कर्तव्यमिति बोध्यते ।


  1. ख. च. र्वसु । अ ।
  2. ख. ङ. च. नं कर ।