पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आयुर्वर्धापनप्रयोगः]
८८३
संस्काररत्नमाला ।

त्कीर्तितं चेत्तदा स्विष्टकृदादिहोमशेषं समापयेत् । व्याहृत्यन्तोत्कीर्तने तु--अङ्गहोमादिहुतशेषेण स्विष्टकृद्धोमः । दूर्वाणां नैव स्विष्टकृतम् । न त्रिवृदन्नहोमः । ततो गुरुं देवेभ्यो नम इति देवांश्च संपूज्याग्निं विप्रांश्च पूजयेत् । ततः प्रतिमास्वक्षतपुञ्जेषु वा क्रमेण वक्ष्यमाणदेवता आवाहयेत् ।

 त्र्यम्बकं यजामह इत्यस्य विश्वे देवा मृत्युंजयोऽनुष्टुप् । आवाहनादौ विनियोगः । 'ॐ त्र्यम्बकं यजामहे० मृतात्' 'ॐ मृत्युंजयाय नमः । मृत्युंजयमावाहयामि' इति प्रतिमायामक्षतपुञ्जे वा मृत्युंजयमावाह्य,

 या दिव्या आप इति मन्त्रद्वयस्य विश्वे देवाः पूर्वाषाढानक्षत्रदेवता आपस्त्रिष्टुप् । आवाहनादौ विनियोगः । 'ॐ या दिव्या आपः० याश्च कूप्या या० भवन्तु' 'पूर्वाषाढानक्षत्रदेवताभ्योऽद्भयो नमः पूर्वाषाढानक्षत्रदेवता अप आवाहयामि[१]' । 'ॐ अमुककुलदेवतायै नमः, अमुककुलदेवतामावाहयामि । ॐ जन्मनक्षत्राय नमः, जन्मनक्षत्रमावाहयामि । ॐ वित्तपाय नमः, वित्तपमावाहयामि । ॐ देवाय प्रजापतये नमः, देवं प्रजापतिमावाहयामि । ॐ भानवे नमः, भानुमावाहयामि । ॐ विघ्नेशाय नमः, विघ्नेशमावाहयामि । ॐ मार्कण्डेयाय मुनये नमः, मार्कण्डेयं मुनिमावाहयामि । ॐ अश्वत्थाम्ने नमः, अश्वत्थामानमावाहयामि । ॐ बलये नमो बलिमावाहयामि । ॐ व्यासाय नमो व्यासमावाहयामि । ॐ हनूमते नमो हनूमन्तमावाहयामि । ॐ विभीषणाय नमो विभीषणमावाहयामि । ॐ कृपाय नमः कृपमावाहयामि । ॐ परशुरामाय नमः परशुराममावाहयामि । ॐ प्रह्लादाय नमः प्रह्लादमावाहयामि । ॐ षष्ठ्यै नमः षष्ठीमावाहयामि' इति प्रतिमास्वक्षतपुञ्जेषु वाऽऽवाह्य षोडशोपचारैः संपूज्य नमस्कुर्यात् । पष्ठ्यै दधिभक्तनैवेद्यम् । ततस्तदुत्तरतः कलशमभिषेकार्थं स्थापयेत् । मही द्यौः पृथिवीत्यादि । तत्र वरुणमावाह्य पूजयेत् ।

"अस्मिञ्जन्मदिने भक्त्या पूजितोऽसि मया गुरो ।
प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे" इति गुरोः प्रार्थना ।
"अस्मिञ्जन्मदिने भक्त्या भो देवाः पूजिता मया ।
शरणं वः प्रपन्नोऽस्मि दीर्घमायुः प्रयच्छत" इति देवानां प्रार्थना ।
"अस्मिञ्जन्मदिने भक्त्या पूजितोऽसि मयाऽनल ।
प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे" इत्यग्नेः प्रार्थना ।


  1. अत्र क. पुस्तकटिप्पण्याम्--"एतदब्देवतावाहनलेखनं नक्षत्रान्तरदेवतानामप्युपलक्षणं न स्वस्वजन्मनक्षत्रदेवताया आवाहनमत्र स्थले कर्तव्यमिति ज्ञेयम्" इति वर्तते ।