पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आयुर्वर्धापनप्रयोगः]
८८१
संस्काररत्नमाला ।

सादनम् । यद्यपि मेक्षणस्यैव स्वलोपेन विनियोजकत्वं नोपवेषस्य तथाऽपि द्वंद्वतार्थमुपवेषस्य मेक्षणसाहित्यम् । वार्क्षत्वसामान्यादुपवेषस्यैव मेक्षणसाहित्यं नान्यस्य चरुस्थाल्याद्यन्यतमस्य पात्रस्य ।

 न च दर्वीप्रणीताप्रणयनप्रोक्षणीपात्रोलूखलमुसलेध्मानां मध्ये यस्य कस्यचित्पात्रस्यापीच्छातः साहित्यमस्तु वार्क्षत्वसामान्यस्यैतेष्वपि सत्त्वादिति वाच्यम् । दर्व्यादीनां बद्धक्रमत्वेन मेक्षणसाहित्यासंभवात् । स्रुवस्य तु दर्व्या सहैवाऽऽसादनं भवति । श्रौते स्रुचा सहाऽऽसादनस्य दृष्टत्वात् । दर्व्याः स्रुक्स्थानीयत्वात् । प्रोक्षणीपात्रस्य सर्वपात्रप्रोक्षणसाधनत्वेनाभ्यर्हितत्वात्सर्वार्थिकपात्रासादनपूर्वभावित्वं प्रोक्षणीपात्रासादने । न चैवं स्रुवासादनपूर्वभावित्वं प्रोक्षणीपात्रासादनस्य कुतो न कल्प्यत इति शङ्कनीयम् । कण्ठरवोक्तपात्रव्यतिरिक्तपात्रासादनप्रापकस्य येन चार्थ इति वचनस्य दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयनमिति कण्ठरवोक्तपात्रासादनानन्तरभूतत्वेनाऽऽर्थिकपात्रासादनस्य कण्ठरवोक्तपात्रासादनपूर्वभावित्वस्य वक्तुमशक्यत्वात् । शूर्पस्यैव कृष्णाजिनेन साहित्यं शम्याया अत्राभावात् । एकार्थसंबद्धत्वाच्च । एवमुलूखलमुसलयोरपि द्रष्टव्यम् । इध्मस्य बर्हिःसाहित्यं श्रौते दृष्टत्वात् । तस्मादर्थादुपवेषस्यैव मेक्षणसाहित्यं सिद्धं भवति । एवं पात्राण्यासाद्य ब्रह्मवरणादिचरुकल्पेन चरुं श्रपयित्वा स्रुवदर्व्यौ संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र पर्यग्निकरणकाले चरुदूर्वामधुदधिभिः सहाऽऽज्यस्य पर्यग्निकरणमिति विशेषः । ततः परिधीन्परिधाय शृतं चरुमभिघार्योदगुद्वास्य बर्हिषि निधाय मधुना स्थाल्याज्येन दध्ना च दूर्वा अभ्यज्य चरोरुत्तरतो बर्हिषि निधाय परिषेकादि प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कृत्वा प्रधानहोमं कुर्यात् ।

 त्र्यम्बकं यजामह इति मृत्युंजयमन्त्रस्य विश्वे देवा ऋषयः । मृत्युंजयो देवता । अनुष्टुप्छन्दः । आयुर्वर्धापनप्रधानदूर्वाहोमे विनियोगः । ॐ त्र्यम्बकं यजामहे० तात्स्वाहा' इति मध्वाज्यदध्यक्तदूर्वाहुतीरष्टोत्तरसहस्रमष्टोत्तरशतं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण जुहुयात् । तत्र प्रत्याहुति दूर्वाणां त्रयं त्रयं होतव्यम् ।

 ततः स्रुवेण दर्व्यामुस्तीर्य चरोर्मध्यादङ्गुष्ठपर्वमात्रमवदाय तथैव पूर्वार्धास्वदाय स्रुवेणाभिघार्य स्थालीगतं हविः प्रत्यनक्ति । पञ्चावत्ती चेत्पश्चार्धातृतीयमवदानम् ।


१११